पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६०
नैषधीयचरिते

लेन सह, त्रेतायाश्च स्त्रीत्वाद्भैम्या सह, स्पर्धासंभावनायां पार्थक्येन निषेधो युक्त इति वा । कृतयुगं तं स्पर्धितुं नार्हति । युवामपि नार्हतः । सत्ययुगेऽधर्मलेशसंस्पर्शसंभावनापि संभवेत्, नतु नले । तथा-त्रेतायामपि, नतु भैम्याम् । तथा चाद्यं युगद्वयं ताभ्यां स्पर्धितुमपि न शक्तम्, युवां पुनर्न शक्ताविति किं वाच्यमित्यर्थ इति वा । अथच-दस्रयोर्युगं नलं स्पर्धितुमर्हति । गार्हपत्याहवनीयदक्षिणाग्नित्रयरूपा च भैमीं स्पर्धितुमर्हति । यतः-एकः केवलः प्रकाश उज्ज्वलः प्रसिद्धो वा धर्मः स्वभावः सौन्दर्यादिगुणो वा ययोर्भैमीनलयोः । प्रकाशः शोभालक्षणो धर्मो ययोरिति वा । अग्नित्रयपक्षेप्येकः केवलः प्रकाशस्तेज एव धर्मः स्वभावो यस्या इति । सौन्दर्याद्दीप्तत्वात्पावित्र्याच्च दस्रयुगमग्नित्रयं च ताभ्यां तुल्यं भवितुमर्हतीत्यर्थः । कलिद्वापरौ युवां पुनर्न, असुन्दरत्वात्पापप्रधानत्वाच्चेत्यर्थः । अथच-एको विरुद्धधर्मरहितः प्रकाशो निश्चितश्च धर्मो यत्र तं च तां च कलहसंदेहौ स्पर्धितुं नार्हतः। विरुद्धधर्मत्वे हि कलहसंभवो विशेषधर्माप्रकाशे च संदेहसंभवः । अत्र त्वेकधर्मत्वात्प्रकाशमानधर्मत्वाच्च कलहसंदेहौ न संभवत इति युक्तमिति भावः। 'त्रेताऽग्नित्रितये युगे' 'प्रकाशश्च प्रसिद्धे स्यात्' 'संदेहद्वापरौ चाथ' इत्यमरः । प्रकाशधर्मशब्दयोः पूर्वं बहुव्रीहौ 'धर्मादनिच्-' इति समासान्तः । पश्चात्पूर्वेण समासः ॥

करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।
दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥ १४७ ॥

 करिष्य इति ॥ हे कले, अवश्यं निश्चितं करिष्ये । अर्थान्नलपराभवमित्युक्तिः प्रतिज्ञावचो यस्यैवंभूतस्त्वं करिष्यन्नपि कर्तुकामोपि दुष्यसि दुष्टो भवसि । अपकारस्य भविष्यत्त्वादिदानीं साक्षात्कायव्यापाराभावेपि मनस्यपकारकरणवासनाया धृतत्वाद्वचनेन चानुवादाद्विविधपातकसद्भावात् । ब्रह्महत्याया अकरणेऽपि ब्रह्महत्यां करिष्यामीत्यादाविवेत्यर्थः । कुर्वाणो दुष्टो भविष्यसीति किं वाच्यमित्यपिशब्दार्थः । अथच-अकर्ता दुष्यस्येव प्रतिज्ञाभङ्गादिति किं वाच्यम् । किं तु यद्यपि नलस्य पराभवं करिष्यसि, तथापि दुष्यसि, प्रतिज्ञातार्थसंपादनेप्येवंप्रतिज्ञाकरणस्यायुक्तत्वात् । हि यस्मात्कार्यीयाः कार्यसाधनसमर्था दृष्टाश्चक्रचीवरादयः, अदृष्टा देशकालेश्वरेच्छादयो हेतवः कारणानि तवायत्तास्त्वदधीना (न) भवन्ति । कार्यसाधिका दृष्टादृष्टसामग्री तावत्त्वया संपादयितुमशक्या। किंतु सा तस्य तस्य तत्तत्कर्मवशात्स्वयमेव संपद्यत इत्यर्थान्तरन्यासः । तथाचैवं त्वया चित्ते धृतेऽनूदिते च द्विविधं पातकमेव भवति । न तु तं पराभवितुं शक्नोषीति । यद्यपि तं पराभवितुं शक्ष्यसे, तथापि नलीयदृष्टादृष्टसामग्र्येव तत्र प्रयोजिका, न तु त्वमिति । मयैवं करिष्यते,मयैवं कृतमित्यादिरूपां प्रतिज्ञां प्रति स्वमात्रस्य करणत्वाभावादृष्टादृष्टकारणवैगुण्येन प्रतिज्ञाभङ्गस्यापि शङ्कितत्वादिन्द्रोपि कर्तुमशक्तः, त्वं तु को नाम वराक इति च भावः। यद्वा दृष्टादृष्टरूपा हेतवः,(तत्र) दृष्टसामग्री यथाकथंचिद्यद्यपि संपादयितुं शक्यते । तथाप्यदृष्टसामग्री त्वया न शक्यते । तथा च नलेन यदि परमो धर्मः कृतः, तर्हि स त्वया पराभवितुमशक्यः । अथाधर्मः कृतः, तर्ह्यधर्मवशादेव तादृशी दशा भविष्यति त्वया किं क्रियत इत्युभयथापि दोषात् 'मयैवं करिष्यते, कृतम्' इत्यादि वल्गना न कार्येति भावः। 'इत्युक्त्वा'