पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
प्रथमः सर्गः।

सनालमात्मानननिर्जितप्रभं ह्रिया नतं काञ्चनमम्बुजन्म किम् ।
अबुद्ध तं विद्रुमदण्डमण्डितं स पीतमम्भःप्रभुचामरं नु किम् १२२

 सनालमिति ॥ स नलः तं हंसमित्यबुद्ध तर्कितवान् । इतीति किम्-एकचरणावस्थानात्सनालं नालसहितमात्मनः स्वस्याननेन मुखेन निर्जिता प्रभा यस्य । अत एव ह्रिया लज्जया नतं नम्रं काञ्चनं सौवर्णमम्बुजन्म कमलमेतत्किम् । तथा चरणस्य रक्तत्वाद्विद्रुमदण्डेन मण्डितमलंकृतं पीतं पीतवर्णमम्भःप्रभोर्वरुणस्य चामरं किमिति तर्कितवान् । कमलं सनालम्, चामरं च सदण्डं भवति । काञ्चनमिति विकारे 'अनुदात्तादेश्च' इत्यञ् । रजतादित्वाद्वा । अबुद्धेति बुध्यतेर्लृङि (सिज्लोपे) 'इषस्तथोर्धोऽधः' इति धादेशे रूपम् ॥

कृतावरोहस्य हयादुपानहौ ततः पदे रेजतुरस्य बिभ्रती ।
तयोः प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी॥१२३॥

 कृतेति ॥ ततोऽनन्तरं हयादश्वात्कृतावरोहस्य कृतोत्तरणस्यास्य नलस्य पदे चरणौ रेजतुः शुशुभाते । किंभूते पदे-उपानहौ बिभ्रती धारयमाणे । तत्रोत्प्रेक्षते-तयोः प्रकृतयोर्वनयोः काननोदकयोर्यथाक्रमं प्रवालैः पल्लवैः, तथाम्बुजैः सह नियोद्धुकामे संग्रामयितुकामे सती बद्धवर्मणी बद्धं वर्म कवचं याभ्यां ते । किमु संभावनायाम् । तथा समुच्चये । अत्र नियुद्धं युद्धमात्रम्, नतु बाहुयुद्धम् । तस्य पदे पल्लवरक्तोत्पलतुल्ये इति सूचितम् । यो कामो बद्धकवचो भवति । 'वने सलिलकानने' इत्यमरः । उपानहाविति 'नहिवृति-' इति दीर्घः । रेजतुरिति 'फणां च सप्तानाम्' इत्येत्त्वाभ्यासलोपौ ॥

विधाय मूर्तिं कपटेन वामनीं स्वयं बलिध्वंसिविडम्बिनीमयम् ।
उपेतपार्श्वश्चरणेन मौनिना नृपः पतङ्गं समधत्त पाणिना ॥१२४॥

 विधायेति ॥ अयं नृपः पाणिना हस्तेन पतङ्गं हंसं स्वयमेव समधत्त धृतवान् । किं कृत्वा-कपटेन बलिध्वंसी नारायणस्तस्य विडम्बिनीमनुसरणशीलां वामनीं ह्रस्वां मूर्तिं स्वरूपं विधाय कृत्वा । किंभूतः-मौनिना निःशब्देन चरणेन (पादेन) गमनेन वोपेतः प्राप्तः पार्श्वो हंससामीप्यं येन । त्रिविक्रमोऽपि बलिं छलयितुं वामनावतारमूर्तिं कृत्वा आकाशगामित्वान्निःशब्देन चरणेना(ङ्घ्रिणा) गमनेन वा प्राप्तसूर्यपार्श्वोऽभवत् । सूर्यं हस्तेनास्प्राक्षीदित्यागमः। पक्षिधारणजातिरुक्ता । वामनीमिति संबन्धेऽपि ङीप्, गौरादित्वान्ङीष् वा ॥


१ 'अत्रानिश्चयः संदेहोऽलंकारः । तथाच रुद्रटः-'वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तुः सादृश्यादनिश्चयः संशयः स इति॥' इति साहित्यविद्याधरी । २ 'अत्र यथासंख्योत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । ३ 'अत्रोपमाजातिरलंकारः' इति साहित्यविद्याधरी ।