पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६२
नैषधीयचरिते

गत्वान्तरा नलं भैमीं नाकस्मात्त्वं प्रवेक्ष्यसि ।
षण्णां चक्रमसंयुक्तं पठ्यमानं डकारवत् ॥ १५१ ॥

 गत्वेति ॥ हे कले, निषधदेशान्गत्वा प्राप्य नलं भैमीमन्तरा नलभैम्योर्मध्येऽकस्माच्छीघ्रं दुरितलक्षणकारणमन्तरेण वा त्वं न प्रवेक्ष्यसि । नलस्य पुण्यश्लोकत्वात् , भैम्याश्च पातिव्रत्यादिधर्मयुक्तत्वात् , तौ पराभवितुं न शक्नोषीत्यर्थः । क इव-असंयुक्तं पूर्वं विसंधितया पृथक्कृतप्रकृतिप्रत्ययविभागं पश्चात्पठ्यमानं संहितया प्रयोगार्हम् । उच्चार्यमाणमिति यावत्। एवंभूतं षण्णां चक्रं षण्णामिति शब्दरूपस्थवर्णवृन्दमन्तरा मध्ये डकारवत् । डकारो वर्णो यथाऽकस्माद्विधिमन्तरेण न प्रविशतीति साधर्म्योपमा । षष्शब्दात्षष्ठीबहुवचने 'षट्चतुर्भ्यश्च' इति नुटि तत्सहित आमि 'स्वादिष्वसर्वनामस्थाने' इति पूर्वपदस्य पदत्वात् 'झलां जशोऽन्ते' इति जश्त्वेन षकारस्य डकारे 'न पदान्तात्-' इति निषेधस्य 'अनाम्नवति-' इति निषेधात् 'ष्टुना ष्टुः' इति ष्टुत्वेन नाम्नकारस्य णकारादेशे 'यरोऽनुनासिके-' इति डकारस्याप्यनुनासिकस्य व्यवस्थितविकल्पत्वादनुनासिकस्यात्र नित्यत्वेन णकारे जाते सर्वथापि न स्वेनरूपेण 'षण्णाम्'इति पदमध्ये डकारो यथा प्रवेशं न लभते, तथा तयोर्मध्ये त्वमपीत्याशयः । अन्यथा विकल्पत्वात्पक्षे षड्णामिति स्यात्, तन्मा भूदित्यत्र व्यवस्थितविभाषाऽङ्गीकरणीया । षण्णां चेति चकारो भैमीं चेति योज्यः। तथा च-क्रमेण परिपाट्या संयुक्तं षण्णामिति कर्मभूतं शब्दरूपमन्तरा डकारो यथा न प्रविशति । असंयुक्तावस्थायां यद्यपि स्वेन रूपेणावस्थानं वर्तते, तथापि संयुक्तावस्थायां नास्तीत्यर्थ इति वा । षण्णामित्यत्र प्रकृतिप्रत्ययदशायामकस्मादागन्तुकादेशरूपतया डकारो यथा प्रविशति, तथा त्वं न प्रविशसीति वैधर्म्योपमया वा व्याख्येयम् । 'टकारवत्' इति पाठे-'वावसाने' इत्यवसान एव चर्त्वविकल्पात् , खरश्चाभावात् षट्, षटूस्वित्यादिवत् षण्णामित्यत्र खरवसानयोरभावादृकारो यथा न प्रविशतीति साधर्म्योपमैव । क्षेपकोऽयम् । नलं मैमीं 'अन्तरान्तरेण-' इति द्वितीया ॥

अपरेपि दिशामीशा वाचमेतां शचीपतेः ।
अन्वमन्यन्त किंत्वेनां नादत्त युगयोर्युगम् ॥ १५२ ॥

 अपरे इति ॥ अपरे दिशामीशा वह्न्यादयः शचीपतेरेनां पूर्वोक्तां वाचमन्वमन्यन्त । 'इन्द्रो युक्तमाज्ञापयति' इत्येवमभ्यनन्दन् । किंतु पुनर्मूर्खं युगयोः कलिद्वापरयोर्युगमेनामिन्द्रगिरं नादत्त नाङ्गीचक्रे । दिगीशानामपि संमतायां वाचि तयोरसंमतेः किंतु शब्देन मूर्खतरत्वमाग्रहित्वं चोक्तम् । एनाम् , अन्वादेशे एनादेशः। आदत्त, अनास्यविहरणत्वात्तङ्॥

कलिं प्रति कलिं देवा देवान्प्रत्येकशः कलिः।
सोपहासं समैर्वर्णैरित्थं व्यररचन्मिथः ॥ १५३ ॥


[१]

  1. 'प्रत्यये भाषायां नित्यवचनम्' इति वार्तिकेन नित्यत्वे सिद्धेऽस्य प्रयासस्य गतिश्चिन्त्या । छन्दोविषयत्वं वा कल्प्यम्।