पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६३
सप्तदशः सर्गः।

 कलिमिति ॥ देवाः कलिं युगं प्रति लक्षीकृत्य, कलिर्देवान्प्रत्येकश एकैकमुद्दिश्य मिथोन्योन्यं समैर्वणैस्तुल्यैरक्षरैः श्लिष्टैः शब्दैः सोपहासमुपहासवाक्यसहितं कलिं कलहं वाग्युद्धमित्थं वक्ष्यमाणप्रकारेण व्यररचन्, व्यररचच्च कृतवन्तः कृतवांश्चेत्यर्थः । व्यररचत्, रचयतेश्चौरादिकस्यादन्तत्वादग्लोपित्वान्न सन्वद्भावः।व्यरचयदित्यपि पाठः ॥

 इन्द्रः कलिं प्रत्याह-

तवागमनमेवार्हं वैरसेनौ तयावृते ।
उद्वेगेन विमानेन किमनेनापिधावता ॥ १५४॥

 तवेति ॥ हे कले, तया वैरसेनौ नले वृते सति तवागमनं गमनाभावोर्हं युक्तम् । उद्वेगेनोत्कृष्टजवेन, अत एव-धावता शीघ्रगामिनाऽनेन प्रत्यक्षदृश्येन विमानेनाकाशगामिना रथेन किम् , अपितु-न किंचित्प्रयोजनमस्ति । अन्यस्य वृतत्वादित्यर्थः । वैरसेनावुत्तरेण वा संबन्धनीयम् । अनया नलेऽवृते एव तव स्वपुराद्गमनं युक्तम् । नलवरणानन्तरमिदानीं सर्वथा गमनं न कार्यमित्यर्थ इति वा । एतावत्पर्यन्तं किं कृतम्, इदानीं किमर्थं गम्यत इत्युपहासः॥

 एतदेव वाक्यं कलिरिन्द्रं प्रत्याह-हे शक्र, भैम्या नले वृते सति तव यथागतमागमनमेवाकृतकार्यत्वादिदानीं स्वर्गं प्रत्यगमनमेव युक्तम् । निर्लज्जत्वमङ्गीकृत्येन्द्राण्यादीनामग्रे कथं मुखं दर्शयिष्यसि; अपि तु-अनुचितमेतत् । सर्वथा स्वर्गं प्रति न गन्तव्यमेव युक्तमित्यर्थ इति वा । विमानेनाहंकाररहितेनापिधा तिरोधानं तद्युक्तेन नितरां गोपितेनानेन मुखदर्शनानुमितेनोद्वेगेन निर्वेदेन किम् , अपि तु-तद्गोपनं व्यर्थम् । धैर्यमवलम्ब्य निर्वेदो यद्यपि त्वया गोप्यते, तथापि मया ज्ञात एव । अथ च -भैमीनलाभ्यां वरदानार्थमेव मयागतमित्यादिव्याजेन निर्वेदगोपनं क्रियते, तथापि स निर्वेदो ज्ञात एव । अभिमानशून्यत्वान्न किंचिदनेन निर्वेदेन साधयितुं शक्यते, तस्मात्सर्वथा दुःखं मा कार्षीरित्युपहसितवानित्यर्थः । विमानेनान्यवरणादपमानेन हेतुना य उद्वेगस्तेन प्रकटेन किम्, अपितु-तं गोपायेति वा । विगतमानानामिन स्वामिन्नितरामभिमानशून्य इन्द्र, गोपितेन चानेन निर्वेदेन किमिति वा । उद्वेगेन किम् , अनेन धावता विमानेनापि किमिति वा । [१]अपिधा, 'आतश्चोपसर्गे' इत्यङ् [२] प्रत्ययः॥

 वह्निः कलिमाह-

पुरायासि वरीतुं यामग्र एव तया वृते ।
अन्यस्मिन्भवतो हास्यं वृतमेतत्त्रपाकरम् ॥ १५५ ॥

 पुरेति ॥ हे कले, त्वं यां वरीतुमितोपि पुरा यासि गमिष्यसि, तयाऽग्र एव त्वदागमनात्पूर्वमेवान्यस्मिन्वृत एतदिदानीं गमनं भवतस्त्रपाकरं हास्यं हास्यकारणं वृत्तं जातम् । वर्तिष्यमाणमपि वृत्तप्रायत्वाद्वृत्तमित्युक्तम् । सर्वोपि लोकस्त्वामुपहसिष्यती-


  1. 'अवाप्योः-- इत्यल्लोपे नञ्समासे अपिधावता प्रकटे न' इति सुखावबोधा
  2.  ; 'अत्र द्वयोरप्यर्थयोः प्रकृतत्वात्केवलप्रकृतश्लेषः' इति जीवातुः।