पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६४
नैषधीयचरिते

त्यर्थः । एतत्तव वृत्तं गमनाचरणं हास्यहेतुभूतं त्रपाकारि च । भविष्यतीति शेष इति वा । एतल्लोकैः क्रियमाणं हास्यं तव त्रपयाऽकं दुःखं राति एवंविधं वृत्तं जातप्रायमेवेति वा । अत्राप्युपहासः॥

 इदानीं कलिरग्निमाह-हे वह्ने, त्वं यां वरीतुं पुरा यास्ययासीः, तया तव समक्षमेव त्वामनादृत्यान्यस्मिन्नले वृते तवैतत्प्रत्यक्षदृश्यं वृत्तं वर्तुलमास्यं मुखं त्रपामा सामस्त्येन करोति नितरां लज्जावहं जातमिति शेषः। हा कष्टम् । त्रपयाऽकं दुःखं रात्यादत्ते लज्जास्पदं वृत्तं जातमिति वा । हे वह्ने पुराऽस्मद्गमनात्पूर्वं यां वरीतुमयासि त्वया प्रयत्नो कारि स्वयंवरं प्रति गतम् , नलरूपं धृतमिति यावत् । यद्वा-स्वस्य गमनात्पूर्वं दूतीहस्तेनोपदाप्रदानादिद्वारा यां वरीतुं प्रयत्नोऽकारि, तया तव समक्षमेव नले वृते एतत्स्वर्गं प्रत्यागमनलक्षणमाचरणं तव त्रपां न करोतीति त्रपाऽकरं लज्जां नावहति । एवं वृत्तेपि निर्लज्जः सन् स्वगृहं गच्छन् स्वां वनितां मुखं कथं दर्शयितास इति भाव इति । तया विनैतत्स्वर्गगमनाचरणं लज्जावहं सदहास्यं हासयोग्यं न, अपितु-सर्वैर्हास्यमेवेति काकुर्वा । मुखं लज्जाकरम् , वृत्तमाचरणमपि लज्जाकरमिति वा । (पुरा)यासीति 'यावत्पुरा-' इति भविष्यति लट् । पक्षे 'पुरिलुङ् चा-' इति भूते लट् । पक्षे 'यसु प्रयत्ने' भावे चिण्॥

 यमः कलिमाह-

पत्यौ तया वृतेन्यस्मिन्यदर्थं गतवानसि ।
भवतः कोपरोधस्तादक्षमस्य वृथारुषः ॥ १५६ ॥

 पत्याविति ॥ हे कले, त्वं यदर्थं यस्या निमित्तेन गतवान्गमनयुक्तोऽसि यां वरीतुमेव गच्छसि तया पूर्वमेवान्यस्मिन्पत्यौ वृते स्वभर्तृत्वेनाङ्गीकृते सति भवतः कोपस्य रोधो निवारणं स्ताद्भवतु । यतोऽक्षमस्यासमर्थस्य अत एव-वृथा रुट् कोपो यस्य । तस्मादिदानीं कोपो रोद्धव्यः, न कार्य इत्यर्थः । नलद्वेषे कारणाभावाद्वा निष्कारणरोषस्य । यस्मादसहनस्यासमर्थस्य वा रुषो वृथा कोपा निष्फलाः, तस्मात्कोपो निवार्य इति वा ॥

 कलिरेतदेव यममाह-हे यम, यां वरीतुं गतवानसि तया नले पत्यौ वृते भवतः सकाशादन्योऽधस्तादधरो हीनः कः, अपितु त्वमेव । त्वत्सकाशादन्योऽधो हीनः कः स्तात् , अपि तु-त्वमेव हीन इति वा । अपरोऽर्थात्त्वदन्यो भवमुत्पत्तिं तस्यत्युपक्षयं प्रापयतीति भवतो निरर्थकजन्मा, अत एव-अधो हीनः कः स्तात्, अपि तु-त्वमेव हीन इति वा । संबुद्ध्यन्तं वा निरर्थकजन्मन्नित्यर्थः । अक्षमस्य भूस्पर्शरहितस्य देवस्य रुषो वृथा । अस्मादृशानामेव रोषाः सफलाः, न तु भवादृशानामित्यर्थ इति वा । अक्षमासहनासमर्थ यम वृथा निष्कारणमस्मान्प्रति रुषः कोपान् स्य मा कुर्वित्यर्थ इति वा । यस्यै यदर्थं 'चतुर्थी तदर्था-' इति समासः । गतवान्मतुप् । पक्षे भूते क्तवतुः । भवतः षष्ठी पञ्चमी च दिग्योगे । पक्षे प्रथमा 'अधातोः' इति प्रतिषेधात् 'अत्वसन्तस्य-' इति न दीर्घः । अधस्तादिति दिक्शब्दत्वादधरशब्दादस्तातिः, 'अस्ताति च' इत्यधरस्याधादेशः। अध इति तस्मादेव 'पूर्वाधरा-' इत्यसिरधरस्यादेशश्च । स्येति 'पोऽन्तकर्मणि' ॥