पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६५
सप्तदशः सर्गः।

 वरुणः कलिमाह-

यासि स्मरञ्जयन्कान्त्या योजनौघं महार्वता।
समूढस्त्वं वृतेऽन्यस्मिन्किं न ह्रीस्तेत्रपामर ॥ १५७ ॥

 यासीति ॥ हे कले, कायकान्त्या स्मरं जनयन्विरुद्धलक्षणयाऽतिकुरूपस्त्वं महान्तोऽर्वन्तोऽश्वा यस्मिन्रथे तेन रथेन कृत्वा योजनौघं चतुःक्रोशरूपयोजनसमूहमतिदूरमिदानीमपि यासि स त्वं मूढो मूर्खः । यस्माद्-हे पामर नीच, भैम्याऽन्यस्मिन्नले वृते सति अत्रास्मिन्नर्थे वर्तमानस्य ते तव ह्रीः किं न, अपितु-भविष्यत्येव । भाविनीं वर्तमानां वा लज्जामवगणय्यापि गच्छसि, तस्मान्मूर्ख एवेत्यर्थः । सेनापुरःसरमतिगौरं कामं कज्जलतुल्यया स्वकायकान्त्या पराभावुकः । तथा-जनौघं स्वसेनासमूहमपि पराभावुकः प्रसरन्त्या श्यामकायकान्त्या सर्वसेनामग्रेसरं स्मरं च श्यामीकुर्वन्नतिकुरूपः एवंभूतो रथेन समूढः सम्यग्धृतो यस्त्वं तयाऽन्यस्मिन्वृते सत्यपि यासि । अर्थात्स्वयंवरम् । तस्य तेऽत्रार्थे स्वयंवरे वा ह्रीः किं न भवेत् । अपितु-भवेदेवेति वा ॥

 एतदेव कलिर्वरुणमाह-हे अमर देव वरुण, कान्त्या दिव्यदेहदीप्त्या योजनौघं दूरं देशं रञ्जयन्दीप्रं कुर्वन् । जनौघं स्वयंवरस्थलोकसमूहं वा रञ्जयन्नत्याश्चर्यदिव्यरूपदर्शनान्नलाकारधारणाद्वात्मनि सानुरागं कुर्वन्नतिजवनहययुतेन विमानेन महता श्यावकर्णादिनाऽर्वता हयेन वा समूढस्तमारूढो यस्त्वं यासि स्म स्वयंवरमयासीः, तस्य तवान्यस्मिंस्तया त्वत्समक्षं वृते ह्रीः किमिति न भवति । अत्रप निर्लज्जेति धिक्कारः। अहं तु तदा नासं त्वं तु गतोपि न वृत इत्यपमानाल्लज्जया भवितुं युक्तम् । परं सा न जायत इति चित्रम् । अत एव चात्रपत्वमित्यर्थः । अत्रप (ःसन्) न म्रियसे इत्यमरः। अन्योप्येवमनादरे कृते लज्जया म्रियते, त्वं तु निर्लज्जो न म्रियस इति चित्रमित्यर्थ इति वा। अत्रपया लज्जाभावेनामरेत्येकं पदं वा । त्रपायां सत्यामप्यमरेति वा । अत्रपया लज्जाभावेनामं रोगं पीडामस्मादृशां रासि ददासीत्यत्रपामर । तव निर्लज्जत्वेन वयमतिदुःखिनो भवाम इत्यर्थ इति वा । एते चत्वारोपि श्लोका यथाक्रममिन्द्रादिदेववचनत्वेन ज्ञेयाः। कलिकलहस्तु सर्वत्रानुस्यूतः । तत्रापि पूर्वं देववचः, पश्चात्कलिवचः । महार्वता 'अर्वणस्त्रसौ-' इति त्रन्तादेशः, 'आन्महतः-' इत्याकारः । यासि स्मेति पक्षे 'लट् स्म' इति भूते लट् ॥

लं प्रत्यनपेतार्ति तार्तीयिकतुरीययोः ।
युगयोर्युगलं बुद्ध्वा दिवि देवा धियं दधुः ॥ १५८ ॥

 नलमिति ॥ देवा इन्द्रादयस्तार्तीयिकतुरीययोस्तृतीयचतुर्थयोर्युगयोर्द्वापरस्य कलेश्च युगलं द्वयं नलं प्रत्युद्दिश्यानपेतार्त्यनपगतव्यथं 'सर्वथा नलः पीडनीयः' इति नलेऽनिवृत्तापकारवाञ्छं बुद्ध्वा दिवि धियं दधुः। 'युगद्वयमस्मद्वचनं न शृणोति, इतःपरं यत्किंचिद्भवतु, किमस्माकम्' इति विचार्य स्वर्गं गन्तुमीषुरित्यर्थः । तार्तीयिकः पूर्ववत् । तुरीयः 'चतुरश्छयतावाद्यक्षरलोपश्च' इति छश्चलोपश्चेति ॥