पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६६
नैषधीयचरिते

द्वापरकपरीवारः कलिर्मत्सरमूर्छितः ।
नलनिग्राहिणीं यात्रां जग्राह ग्रहिलः किल ॥ १५९॥

 द्वापरैकेति ॥ कामादिसैन्यं परावर्त्य द्वापर एवैकः सहायो यस्य । तथा-मत्सरेण नलशुभद्वेषेण मूर्छितो विनष्ट इव, अतिमत्सरेण प्रवृद्धो वा । तथा-ग्रहिलो निवारणस्थानाकर्णनादाग्रहवान्कलिरवश्यं नलं निग्रहीष्यामीत्येवंरूपां नलनिग्राहिणीं यात्रां जग्राह निषधान्प्रतस्थ इत्यर्थः । किल यस्माद्-ग्रहिलः, तस्मात्प्रतस्थे । उपहासे वा। एकः परीवारो यस्येति विगृह्य द्वापरेणैकंपरीवार इति समासः। परीवारः 'उपसर्गस्य घञि-' इति दीर्घत्वम् । निग्राहिणीमावश्यके णिनिः ॥

नलेष्टापूर्तसंपूर्तेर्दूरं दुर्गानमुं प्रति ।
निषेधन्निषधान्गन्तुं विघ्नः संजघटे घनः ॥ १६०॥

 नलेति ॥ नलस्य इष्टापूर्तानां यागतडागादिधर्माणां संपूर्तेः संपूर्णत्वाद्धेतोर्नितरां धर्मबाहुल्यात्पापरूपं प्रस्थितममुं प्रत्यनु दूरं दुर्गान्दुर्गमाननेन प्रवेष्टुमशक्यान्निषधान्गन्तुं गमनायामुं निषेधन्वारयन्घनो महान्निरन्तरश्च विघ्नो वक्ष्यमाणप्रकारेण संजघटे संजज्ञे । धर्मबाहुल्यं दृष्ट्वा सहसा तान्प्रवेष्टुं शङ्कित इत्यर्थः । अथ च-घनो मेघो जलपूर्तेर्दुर्गमं देशं गन्तुं विघ्नरूपो भवन्निषेधति । इष्टं च पूर्तं चेति द्वन्द्वे 'अन्येषामपि दृश्यते' इति दीर्घः॥

मण्डलं निषधेन्द्रस्य चन्द्रस्येवामलं कलिः।
प्राप म्लापयितुं पापः स्वर्भानुरिव सं[१]ग्रहात ॥ १६१ ॥

 मण्डलमिति ॥ पापः कलिः, पापग्रहमध्ये गणितत्वात्पापः स्वर्भानुरिवामलं निष्पापं निषधेन्द्रस्य मण्डलं राष्ट्रम् , अमलं परिपूर्णप्रकाशं चन्द्रस्य मण्डलं बिम्बमिव सम्यग्ग्रहाद्धठार्द्ग्रहणयोगवशाच्च म्लापयितुं विनाशयितुं ग्रसितुं च प्राप ॥

कियतापि च कालेन कालः कलिरुपेयिवान् ।
भैमीभर्तुरहंमानी राजधानीं महीभुजः ॥ १६२ ॥

 कियतेति ॥ कालो युगलक्षणः समयरूपः । अथ च-पापरूपत्वाच्छ्यामवर्णः । अथ च-दारुणत्वात्कृतान्ततुल्यः । तथा-अहंमानी नलपीडनेऽहंकारवान्कलिः कियतापि भूयसा कालेन भैमीभर्तुर्महीभुजो नलस्य राजधानीं चोपेयिवान्प्राप्तवान् । पूर्वं देशं प्राविशत् , इदानीं तु राजधानीमिति वार्थः । भूमिभैमीत्याजने कलेरभिनिवेशाभिप्रायो विशेषणद्वयेन सूच्यते । कियताऽल्पीयसेति वा । अहमिति मननमहंमानः, सोस्यास्तीति, सर्वकार्येष्वहमेवेति मन्यते तच्छील इति वा।


  1. ‘स ग्रहात्' इति पठित्वा ‘स प्रसिद्धः कलिर्ग्रहाद्हठाद्ग्रहणवशाच्च'-इति सुखावबोधायां व्याख्यातम् । जीवातौ तु वर्तत एव नैष श्लोकः ।