पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६८
नैषधीयचरिते

अतिथीना पदाम्भोभिरिमं प्रत्यतिपिच्छिले।
अङ्गणे गृहिणां तत्र खलेनानेन चस्खले ॥१६७ ॥

 अतिथीनामिति ॥ तत्र पुरेऽनेन खलेन कलिना गृहिणामङ्गणे चस्खले । यस्मादतिथीनां पदाम्भोभिश्चरणक्षालनोदकैरिमं पापरूपं कलिं प्रत्युद्दिश्यातिपिच्छिलेऽतितरां कर्दमयुक्ते । एवंविधमतिपवित्रमङ्गणं प्रवेष्टुं नाशकदित्यर्थः । अन्योपि पिच्छिले देशे पतति ॥

पुटपाकमसौ प्राप क्रतुशुष्ममहोष्मभिः ।
तत्प्रत्यङ्गमिवाकर्ति पूर्तोर्मिव्यजनानिलैः ॥ १६८ ॥

 पुटेति ॥ असौ कलिः क्रतुशुष्मा यागसंवन्धी वह्निस्तस्य महोष्मभिः प्रकृष्टतापैः कृत्वा पुटाभ्यां पुटयोर्वा पाकमुभयपार्श्वयोः पात्रादिसान्तरमग्निसंयोगमिव प्रापत् । प्रतिगृहं यागबाहुल्याद्वामदक्षिणपार्श्वयोर्वह्नितापैर्नितरां पीडामन्वभूदित्यर्थः । तथा-पूर्तानां धार्मिकनिर्मितवापीकूपतडागादीनामूर्मयस्तरङ्गास्तद्रूपाणि व्यजनानि तेषामनिलैर्वायुभिस्तस्य प्रत्यङ्गं सर्वाङ्गमकर्तीव छिन्नमिवाभूदित्युत्प्रेक्षा । प्रत्यवयवकर्तनेन च पीडातिशयाद्वाप्यादितरङ्गवायुस्पर्शमात्रेण नितरां व्यथितोऽभूदित्यर्थः । 'बर्हिः शुष्मा कृष्णवर्त्मा' इत्यमरः॥

पितॄणां तर्पणे वर्णैः कीर्णाद्वेश्मनि वेश्मनि ।
कालादिव तिलात्कालाद्दूरमत्रसदत्र सः ॥ १६९ ॥

 पितॄणामिति ॥ अत्र पुरे वेश्मनि प्रतिगृहं ब्राह्मणादिचतुर्वर्णैः पितॄणां तर्पणे जले समर्पणे विषये कीर्णात्क्षिप्तात्पितृप्रियात्कालात्कृष्णवर्णात्तिलात्सकाशात्स कलिः कालात्कृतान्तादिव दूरं नितरामत्रसद्भयमाप । 'तर्पणैः' इति पाठे-तर्पयन्तीति तर्पणैरिति वर्णविशेषणम् । तिलादिति जातावेकवचनम् ॥

स्नातॄणां तिलकैर्मेने स्वमन्तर्दीर्णमेव सः ।
कृपाणीभूय हृदयं प्रविष्टैरिव तत्र तैः ॥ १७० ॥

 स्नातॄणामिति ॥ स कलिः स्नातॄणां स्नानं कुर्वतां वैदिकानां तैस्तादृशैर्गोपीचन्दनादिरचितैर्ललाटादिस्थानस्थैर्द्वादशभिस्तिलकैः कृपाणीभूय खड्गतामङ्गीकृत्य तस्य कलेर्हृदयं विदार्य प्रविष्टैरिव स्वं स्वकीयमन्तः शरीरमध्यं दीर्णमेव शकलीभूतमेव मेने । कृपाणैर्हि विदारणं भवतीति युक्तम् । खड्गाकारांस्तिलकान्दृष्ट्वा विव्यथ इत्यर्थः ॥

पुमांसं मुमुदे तत्र वि [१]दन्मिथ्यावदावदम् ।
स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम् ॥ १७१ ॥


  1. 'विन्दनू' इत्यपि पाठः सुखावबोधायाम्