पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७०
नैषधीयचरिते


स गृहे गृहिभिः पूर्णे वने वैखानसैर्घने ।
यत्याधारेऽमरागारे क्वापि न स्थानमानशे ॥ १७५ ॥

 स इति ॥ स गृहिभिर्गृहस्थैः पूर्णे गृहे, तथा-वैखानसैर्वानप्रस्थैर्घने व्याप्ते वने, तथा-यतीनां परमहंसानां संन्यासिनामाधार आश्रयभूतैर्व्याप्तेऽमरागारे । क्वापि कस्मिन्नपीति सर्वत्र योज्यम् । देवालये स्थानं न आनश आश्रयं न प्राप । गृहिभिर्गृहे पूर्णे सतीति सतिसप्तमी वा सर्वत्र ॥

क्वापि नापश्यदन्विष्यन्हिंसामात्मप्रियामसौ।
स्वमित्रं तत्र न प्राप्नोदपि मूर्खमुखे कलिम् ॥ १७६ ॥

 क्वापीति ॥ असौ कलिस्तत्र पुर आत्मनः प्रियामिष्टां निषिद्धां हिंसाम् । अथच -स्त्रियम् । अन्विष्यन्नपि क्वापि कस्मिन्नपि देशे नापश्यत्। तथा-कलहप्रियत्वान्नामसाम्याच्च स्वस्य मित्रं कलिं कलहं मूर्खाणामपि मुखे संभाविते स्थले नाप्नोत् । मूर्खा अपि तत्र न कलहायन्ते हिंसाकलहयोरभावात्तत्र स्थितिं न लेभ इत्यर्थः । अन्योपि यत्र स्वस्त्रीमित्राद्यभावस्तत्र क्षणमपि न तिष्ठतीत्युक्तिः॥

हिंसागवीं मखे वीक्ष्य रिरंसुर्धावति स्म सः ।
सा तु सौम्यवृषासक्ता खरं दूरान्निरास तम् ॥ १७७ ॥

 हिंसेति ॥ मखे गोमेधाख्ये यज्ञे हिंसागवीं हिंसासंबन्धिनीं गवीं वीक्ष्य रिरंसुर्हृष्टचित्तः स 'निषिद्धगोहिंसा मत्प्रिया' इति धावति स्म । सा तु हन्यमाना गौः पुनः सौम्ये सोमदेवताकद्रव्यसाध्ये वृषे धर्म आसक्ता तत्संबन्धिनी तत्साधिका सती। अभिचारादिदुष्टकर्मराहित्यात्सौम्यो रमणीयः पारलौकिको धर्मस्तत्साधिका वा । खरं पापरूपत्वाद्दुःसहं । रलयोरभेदात्खलं वा । पापरूपं दूरादेव निरास निराचकार । अधर्मसाधनं गोहिंसादि दृष्ट्वा प्रवृत्तेः पश्चाद्धर्मसाधनमग्नीषोमीयवैदिकपशुहिंसादि दृष्वा मत्प्रिया हिंसा न भवतीति दूरात्परावृत्त इत्यन्वयः । 'मुखे' इति पाठे-हिंसाप्रतिपादिकां गां वाणीं यज्वनां मुखे वीक्ष्य । श्रुत्वेति यावत् । रिरंसुरधावत् । सा तु वाणी सौम्यप्रतिपादका सती तमखरम् 'अग्नीषोमीयं पशुम्-' इत्यादिवाक्याकर्णनमात्रेण दुःखवशान्निस्तेजस्कं दूरान्निरासेति वा । अथ च कामातुरः सुरतेच्छुः खरो गर्दभो गां वीक्ष्य यद्यपि धावति, तथापि सा रमणीयवृषभानुरक्ता सती विजातीयत्वाद्गर्दभं दूरान्निराचकारेति । मुखे यज्ञप्रारम्भ इति वा । अथच -गौर्यथा सौम्यं वृषभमनुसरन्ती क्रूरं वृषभं त्यजति । 'सुकृते वृषभे वृषः' इत्यमरः। हिंसागवीति 'गोरतद्धित-' इति टच् ॥

मौनेन व्रतनिष्ठानां स्वाक्रोशं मन्यते स्म सः।
वन्द्यवन्दारुभिर्जज्ञौ स्वशिरश्च पदाहतम् ॥ १७८ ॥