पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
नैषधीयचरिते

तदात्तमात्मानमवेत्य संभ्रमात्पुनःपुनः प्रायसदुत्प्लवाय सः।
गतो विरुत्योड्डयने निराशतां करौ निरोद्धुर्दशति स्म केवलम् १२५

 तदात्तमिति ॥ स हंस आत्मानं तेन नलेनात्तं धृतमवेत्य ज्ञात्वा संभ्रमाद्भयात्पुनःपुनः उत्प्लवायोड्डीनगमनाय प्रायसद्यत्नं चक्रे । अनन्तरमुड्डयने निराशतां निष्प्रयत्नत्वम्, राहित्यं वा गतः प्राप्तः सन्विरुत्य दीनं शब्दं कृत्वा केवलं निरोद्धुर्ग्रहीतुर्नलस्य करौ दशति स्म ददंश । पक्षिजातिः। प्रायसदिति 'यसु प्रयत्ने' इत्यस्मात् 'यसोऽनुपसर्गे इति श्यनो निषेधे लङि शप् । यद्वा लुङि पुषादित्वादङ् । तदेति भिन्नं वा ॥

ससंभ्रमोत्पातिपतत्कुलाकुलं सरः प्रपद्योत्कतयानुकम्प्रताम् ।
तमूर्मिलोलैः पतगग्रहान्नृपं न्यवारयद्वारिरुहैः करैरिव ॥ १२६ ॥

 ससंभ्रमेति ॥ सरः कर्तृ सजातीयधारणात्ससंभ्रमं भयसहितमुत्पाति अवश्यमुत्पतनशीलं पतत्कुलं पक्षिकुलं तेन आकुलं व्याप्तं सत् । अत एव पक्षिपक्षवातेन योत्कता उत् उच्छलत्कमुदकं यस्य तस्य भावस्तत्ता तया, हंसोत्कण्ठतया वा अनुकम्प्रतां सकम्पतां, दयालुतां वा प्रपद्य प्राप्य ऊर्मिलोलैस्तरङ्गचञ्चलैर्वारिरुहैः कमलैरेव करैर्हस्तैस्तं नृपं पतगग्रहाद्धंसग्रहणान्न्यवारयदिव न्यषेधयदिव । करैरिवेति वा । (अन्योऽपि) कश्चिज्जिघांसुमुत्कण्ठितत्वेन दयालुतां प्राप्य चञ्चलैः कमलतुल्यैः करैर्वारयति । इयमपि पक्षिजातिः । कम्प्रेत्यत्र 'नमिकम्पि-' इति रः। यद्यपि सरसः पतगग्रहो नेष्टः, तथापि नृपस्येष्ट इति । 'वारणार्थानाम्-' इत्यपादानत्वम् ॥

पतत्त्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।
चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥१२७॥

 पतत्त्रिणेति ॥ कलहंसमण्डली राजहंससंहतिः कूले तीरे चुकूज शब्दं चकार । किंभूता-तत् पल्वलमल्पसरः प्रविहाय त्यक्त्वा प्रयान्त्या गच्छन्त्याः श्रियः शोभायाः शब्दच्छलेन लक्ष्याः चलन्ती ये पदाम्भोरुहे चरणकमले तयोर्वर्तमानौ नूपरौ तदुपमा तत्तुल्या । श्रीत्यागे कारणमाह-किंभूतं पल्वलम्-रुचिरेण सुन्दरेण पतत्त्रिणा पक्षिणा हंसेन वञ्चितं रहितम् । तस्या नूपुरसाम्यात् कूजितस्य मञ्जीरशब्दसाम्यम्, कूजनेनैव तस्या नूपुरतुल्यत्वं वा । यथा सुखप्रदेन प्रियेण त्यक्तं स्थानं त्यक्त्वा गच्छन्त्याः प्रियायाश्चरणे नूपुरौ कूजत इति श्लेषः । प्रयान्त्या इति वर्तमानप्रत्ययेन श्रियः शीघ्रं प्रत्यागमनं सूचितम् । 'कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे' इति विश्वः ॥

न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग यस्याः पतिरुज्झितस्थितिः ।
इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरारवैः खलु १२८


१-'वारिरुहैः करैः इति व्यस्तरूपकम् । न्यवारयदिव इत्युत्प्रेक्षा । वास्तवनिवारणासंभवादुत्प्रेक्षा निवारणस्य करसाध्यत्वात्तत्र रूपकाश्रयणम् अत एवेवशब्दस्य उपमाबाधेनार्थानुसाराध्यवहितान्वयेनाप्युत्प्रेक्षाव्यञ्जकत्वमिति

रूपकोत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः' इति जीवातुः। 'अत्रानुप्रासोत्प्रेक्षारूपकस्वभावोक्तीनां संकरः' इति साहित्यविद्याधरी । २ 'अत्रानुप्रासोपमास्वभावोक्तीनां संकरः' इति साहित्यविद्याधरी।