पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७१
सप्तदशः सर्गः।


 मौनेनेति ॥ स कलिर्व्रतनिष्ठानां वाग्यमव्रतिनां संध्यादिजपमौनिनां वा मौनेन वाङ्नियमेन कृत्वा स्वस्यात्मन आक्रोशं गालीप्रदानमेव मन्यते स्म । तथा वन्द्येषु नमस्कारार्हेषु गुर्वादिषु वन्दारुभिर्नमस्कुर्वद्भिर्नरैः स्वशिरश्च पदाहतं चरणताडितमिव जज्ञावज्ञासीत् । च इवार्थों वा । वन्दारुः शॄवन्द्योरारुः' इत्यारुः । 'वन्द्यान्' इति पाठे-तद्योगे 'न लोका-' इति षष्ठीनिषेधाद्वितीया ॥

ऋषीणां स वृसीः पाणौ पश्यन्नाचामतामपः ।
मेने धनैरमी हन्तुं शप्तुं मामनिरुद्यताः ॥ १७९ ॥

 ऋषीणामिति ॥ स कलिः ऋषीणां पाणौ हस्ते वृसीः कुशासनानि पश्यन् 'अमी ऋषयो धनैर्लोहमुद्गरैर्मां हन्तुमुद्यताः' इति मेने । तथा-आचामतां तेषामेव हस्ते आचमनार्थं गृहीता अपः पश्यन् अमी मामद्भिश्च 'त्वं भस्मसाद्भव' इति शप्तुमुद्यता इति मेने । ततोप्यतिभयेनापासरदित्यर्थः । केषांचिद्धस्ते वृसीः, केषांचिद्धस्तेऽपः पश्यन्निति वा । हन्तुमिव, शप्तुमिवेति प्रतीयमानोत्प्रेक्षा । ‘स कुशान्' इति पाठे-कुशानपश्च पश्यन्नित्यर्थः । अत्र दैर्ध्यात्कुशा एव धनतुल्याः । आचामतां 'ष्ठिवुक्लमु-' इति दीर्घः॥

मौञ्जीधृतो धृताषाढानाशशङ्के स वर्णिनः ।
रज्वामी बन्द्धुमायान्ति हन्तुं दण्डेन मां ततः ॥१८०॥

 मौञ्जीति ॥ स कलिर्मौञ्जीधृतो मुञ्जतृणमेखलाधारिणः तथा-धृत आषाढः पालाशदण्डो यैस्तान्वर्णिनो ब्रह्मचारिण एवंभूतानाशशङ्के मेने । अमी पुरुषा रज्ज्वा मां बन्द्धुं ततो वधानन्तरं च दण्डेन मां हन्तुमायान्तीति । मौञ्जीधृतो धृताषाढा एते ब्रह्मचारिणो न भवन्ति, किंतु मां रज्वा बन्द्धुम् , दण्डेन हन्तुमायान्तीत्याशशङ्क इति वा । 'धृताषाढान्ना-' इति पाठे-एवंभूतान्ब्रह्मचारिण इति नाशशङ्के, किंत्वित्युत्तरार्धम् । 'पालाशो दण्ड आषाढः' 'वर्णिनो ब्रह्मचारिणः' इत्यमरः । मौञ्जी विकारेञ् । वर्णोस्त्येषाम् 'वर्णाद्ब्रह्मचारिणि' इतीनिः॥

दृष्ट्वा पुरः पुरोडाशमासीदुत्रासदुर्मनाः ।
मन्वानः फणिनीस्तत्र स मुमोचास्रु च सुचः ॥ ११ ॥

 दृष्ट्वेति ॥ स तत्र पुरि पुरोऽग्रेऽश्वशफमात्रं पुरोडाशमष्टादशकपालादिसंस्कृतं पशुशरीरावयवं दृष्ट्वा उत्रासेनोत्कृष्टभयेन दुर्मना दुःखित आसीत् । तथा-स्नुचः सर्पफणाकारपुरोभागा वैकङ्कतादीर्जुहूः फणिनीः सर्पिणीर्मन्वानोऽस्रु मुमोच । दशनभिया रुरोदेत्यर्थः । पुरोडाशोऽकारान्तः । 'पुरोडाशभुजामिष्टम्' इति माघे ॥

[१] मुमुदे मदिरादानं विदन्नेष द्विजन्मनः ।
दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तमदूयत ॥ १२ ॥


  1. 'अनन्दत्' इति सुखावबोधास्थपाठः ।