पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७२
नैषधीयचरिते

 मुमुद इति ॥ एष द्विजन्मनो ब्राह्मणस्य मदिरादानं मदिरास्वीकारं विद्वञ्जानन्पश्यन् 'अयं महापातकी' इति बुद्ध्या मुमुदे । अनन्तरं च सौत्रामणीमिष्टिमिन्द्रदेवताकं यागं कुर्वन्तं तं द्विजं दृष्ट्वाऽदूयत । 'सौत्रामण्यां सोमग्रहान्सुराग्रहांश्च गृह्णन्ति' इति श्रुतेर्मदिरादानस्य वैधत्वाल्लब्धाश्रयविनाशादिव विव्यथ इत्यर्थः । सौत्रामणी देवतार्थे संबन्धमात्रे वाण् 'अन्' इति प्रकृतिभावः॥

अपश्यद्यावतो वेदविदा ब्रह्माञ्जलीनसौ।
उदडीयन्त तावन्तस्तस्यास्राञ्जलयो हृदः ॥ १८३॥

 अपश्यदिति ॥ असौ वेदविदां यावतो यावत्संख्याकान्बहून्ब्रह्माञ्जलीन्ब्रह्मयज्ञसमये क्रियमाणान् , हस्तस्वरकल्पनार्थं संयोजितान्करपुटान्वा, सूर्योपस्थायिनां गायत्रीमन्त्रजपाञ्जलीन् 'व्रतारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः,' इति मनूक्तलक्षणान्करसंपुटानपश्यत् । तावन्तस्तस्य कलेर्हृदः सकाशादस्राञ्जलयो रक्तपूर्णा अञ्जलय उदडीयन्त उत्पतिता निर्गताः । तद्दर्शनमात्रेण नितरां विदीर्णहृदयोऽभूदित्यर्थः। 'तदस्र-' इति पाठ उपेक्ष्यः ॥

स्नातकं घातकं जज्ञे जज्ञौ दान्तं कृतान्तवत् ।
वाचंयमस्य दृष्ट्यैव यमस्येव बिभाय सः॥ १८४ ॥

 स्नातकमिति ॥ स विद्यास्नातकं, व्रतस्नातकम् , उभयस्नातकं च स्वस्य धातकं विश्वासघातिनं जज्ञे मेने । तथा - दान्तं तपःक्लेशसहं जितेन्द्रियं नरं कृतान्तवद्यममिव भयहेतुं जज्ञौ ज्ञातवान् । तथा - वाचंयमस्य मौनिनो दृष्ट्यैव दर्शनमात्रेण मौनिकर्तृकस्वकर्मक-स्वकर्तृकमौनिकर्मकदर्शनेनैव वा विभायात्रसत् । कस्येव-यमस्येव । यमकर्तृकस्वकर्मक-स्वकर्तृकयमकर्मकदर्शनेनेव । यमेन दृष्टे, यमे वा दृष्टे यथा भयं, तथा मौनिन इत्यर्थः । स्नातकस्त्वाप्लुतो व्रती' 'तपः क्लेशसहो दान्तः' इत्यमरः । 'गुरवे तु वरं दत्त्वा स्नायाच्च तदनुज्ञया । वेदव्रतानि वा पारं नीत्वा ह्युभयमेव वा' इति याज्ञवल्क्यः। स्नातीति स्नातकः याजकादित्वात्साधुर्ण्वुलन्तः। घातकं हन्तेर्ण्वुलि 'हनस्तः' । जज्ञौ जज्ञ इति जानातेः कत्रभिप्रायक्रियाफलाविवक्षया 'शेषात्कर्तरि-' इति परस्मैपदम् । तद्विवक्षया तु 'अनुपसर्गाज्ज्ञः' इति तङ् । दृष्ट्येति भयहेतुत्वाविवक्षया नपादानत्वम् ॥

स पाखण्डजनान्वेषी प्राप्नुवन्वेदपण्डितान्।
जलार्थीवानलं प्राप्य पापस्तापादपासरत् ॥ १८५ ॥

 स इति ॥ स पाखण्डजनान्वेषी स्वपक्षीयान्वेददूषकान्विचारयन्सन् वेदेषु पण्डिताञ्छ्रोतस्मातकमठान्प्राप्नुवन्पश्यंस्तापादतिदुःखाद्धेतोरपासरत्पलायितः । यतः-पापरूपः । क इव-अनलं प्राप्य जलार्थीव । तृषितो जलं विचिन्वन्नग्निं प्राप्यौष्ण्याद्दूरं पलायते