पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७३
सप्तदशः सर्गः।

तत्र ब्रह्महणं पश्यन्नतिसंतोषमानशे।
निर्वर्ण्य सर्वमेधस्य यज्वानं ज्वरति स्म सः॥१८६॥

 तत्रेति ॥ स तत्र ब्रह्महणं नरं पश्यन्महापातकित्वादात्माश्रयादतितरां संतोषमानशे प्राप । अनन्तरं सर्वमेधाख्यस्य यज्ञस्य यज्वानं तं प्रोक्षणावदानादिसंस्कारादिकर्मणा निर्वर्ण्य निर्धार्य ज्वरति स्म नितरां संतप्तोऽभूत् । सर्वमेधे हि तत्तजातीयैकैकप्राणिहिंसाधिकारात् 'ब्राह्मणो ब्राह्मणमालभेत' इति ब्रह्मवधस्य वैधत्वान्निराश्रयत्वात्संतप्त इत्यर्थः।ब्रह्महणम् 'ब्रह्मभूण-' इति क्विप् । ज्वरतिर्भ्वादिः॥

यतिहस्तस्थितैस्तस्य राम्भैरारम्भि तर्जना।
दुर्जनस्याजनि क्लिष्टिर्गृहिणां वेदयष्टिभिः ॥१८७॥

 यतीति ॥ यतीनां संन्यासिनां हस्तस्थितै राम्भैर्वेणुदण्डैस्तस्य कलेस्तर्जना भर्त्सना आरम्भ्यकारि । तथा-गृहिणां गृहस्थानां वेदैरेव यष्टिभिर्दण्डैर्वेदानां क्रमजटारूपाभिर्वा यष्टिभिस्तस्य दुर्जनस्य क्लिष्टिः क्लेशोऽजनि । राम्भयष्टीदृष्ट्वा भीत इत्यर्थः । 'राम्भस्तु वैणवः' इत्यमरः। रम्भो वेणुः 'तस्येदम्' इत्यण् । क्लिष्टिः 'तितुत्र-' इतीण्निषेधः ॥

मण्डलल्यागमेवैच्छद्वीक्ष्य स्थण्डिलशायिनः ।
पवित्रालोकनादेष पवित्रासमविन्दत ॥१८८॥

 मण्डलेति ॥ एष स्थण्डिलशायिनो वेदिकाशयनव्रतचारिणो नरान्वीक्ष्य मण्डलस्य तद्राष्ट्रस्य त्यागमेवैच्छत् । तथा-पवित्राणां यज्ञाद्युपकरणादीनामालोकनात्पवेर्वज्राद्यस्त्रासस्तमविन्दत प्राप । ततोपि महद्भयमापेत्यर्थः। 'अगर्भौ साग्रौ दर्भौ पवित्रम्' इति कात्यायनः । स्थण्डिल एव शेते व्रतवशात्स स्थण्डिलशायी 'व्रते' इतीनिः॥

अपश्यञ्जिनमन्विष्यन्नजिनं ब्रह्मचारिणा।
क्षपणार्थी सदीक्षस्य स चाक्षपणमैक्षत ॥१८९॥

 अपश्यदिति ॥ स जिनं बौद्धविशेषं स्वमित्रमन्विष्यन्ब्रह्मचारिणामजिनं कृष्णमृगचर्मोत्तरासङ्गमपश्यत् । क्षपणेन दिगम्बरेण वेदबाह्येनार्थी (व) प्रयोजनार्थी तमपि गवेषयन्यज्ञदीक्षा सहितस्य यज्वनोऽक्षपणं दीक्षाङ्गधर्मपरित्यागाभावमैक्षत । यद्वा-अक्षाभ्यां पाशकाभ्यां पणं क्रीडां पाशकसंबन्धिजयपराजयदेयं राशीकृतं धनं ददर्श । 'राजसूये यजमानोऽक्षैर्दीव्यति' इति श्रुतेर्विहितत्वाद्द्यूतं युक्तम् । वैधं सर्वं दुःखदं स्वस्यामित्रमेव ज्ञातवान्, नतु मित्रमित्यर्थः। पणं 'नित्यं पणः' इत्यम् ॥

जपतामक्षमालासु बीजाकर्षणदर्शनात्
स जीवाकृष्टिकष्टानि विपरीतदृगन्वभूत् ॥१९०॥