पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७६
नषधीयचरिते


स तुतोषाश्नतो विप्रान्दृष्ट्वा स्पृष्टपरस्परान् ।
होमशेषीभवत्सोमभुजस्तान्वीक्ष्य दूनवान् ॥ १९८ ॥

 स इति ॥ स विप्रान्स्पृष्टं परस्परं यैस्तानन्योन्यस्पर्शिनोऽश्नतो भुञ्जानान्दृष्ट्वा तुतोष । उच्छिष्टानां मिथः स्पर्शनिषेधात्तदतिक्रमकारिणः स्वाश्रयत्वेन संभाव्य हृष्ट इत्यर्थः। अनन्तरं होमशेषीभवन्होमावशिष्टः सोमस्तं भुञ्जते सोमलताचूर्णं भुञ्जानांस्तान्वीक्ष्य विचार्य दूनवान्व्यथितोऽभूत् । 'न सोमेनोच्छिष्टो भवति' इति श्रुतेः। 'इक्षुदण्डे तिले सोमे नोच्छिष्टं मनुरब्रवीत्' इति स्मृतेश्च सोमभक्षणेऽनुच्छिष्टत्वादन्योन्यस्पर्शपि पा. पाभावादुःखितोभूदित्यर्थः॥

श्रुत्वा जनं रजोजुष्टं तुष्टिं प्राप्नोज्झटित्यसौ।
तं पश्यन्पावनस्नानावस्थं दुःस्थस्ततोऽभवत् ॥ १९९ ॥

 श्रुत्वेति ॥ असौ कंचन जनं रजोजुष्टं धूलिमलिनं श्रुत्वा निषिद्धस्त्रीरजःस्पर्शबुद्ध्या खरादिनिषिद्धरजःस्पर्शबुद्ध्या दृष्ट्वा स्वाश्रयाशया झटिति शीघ्रं तुष्टिं प्राप्नोत् । ततोऽनन्तरं विचारावसरे पवनसंबन्धि पवित्रं च यद्गोरजःस्नानं तत्र तेन वाऽवस्था स्थितिर्यस्य तत्र वाऽवतिष्ठते तं पश्यन्दुःस्थो दूनोऽभवत् । 'वारुणं तु जलस्नानमापोहि- ष्ठेति मान्त्रिकम् । वायव्यं गोरजःस्नानमाग्नेयं भस्मनोदितम् । यत्तु सातपवर्पेण दिव्यं तदिति पञ्चधा' इति मनुः। पावनस्नानस्य धर्म्यत्वाद्दूनोऽभूदित्यर्थः । प्राप्नोत् लङ् । 'प्राप्तः' इति च पाठः॥

अधावत्क्वापि गां वीक्ष्य हन्यमानामयं मुदा।
अतिथिभ्यस्तथा बुद्ध्वा मन्दोमन्दं न्यवर्तत ॥ २०० ॥

 अधावदिति ॥ अयं क्वापि यज्ञशालायां गृहे वा हन्यमानां गां वीक्ष्य स्वाश्रयाशया मुदाऽधावत् अनन्तरं तु पुनस्तां गामतिथिभ्योऽभ्यागतार्थं हन्यमानां बुद्धवा मन्दो मूर्खोऽसौ दुःखवशान्मन्दं शनैर्यवर्तत परावृत्तः । क्षणमपि तत्र स्थातुमशक्तः सन्न मन्दं शीघ्रं परावृत्त इति वा । 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति स्मृतेः ॥

हृष्टवान्स द्विजं दृष्ट्वा नित्यनैमितिकात्यजम् ।
यजमानं निरूप्यैनं दूर दीनमुखोऽभवत् ॥ २०१॥

 हृष्टवानिति ॥ स द्विजं नित्यानि संध्यास्नानादीनि, नैमित्तिकानि, ग्रहणस्नानादीनि त्यजति तमकुर्वाणं दृष्ट्वा हृष्टवान्स्वाश्रयाशया जहर्ष । अनन्तरमेनं यजमानं यागे कृतदीक्षं निरूप्य निश्चित्य निराशत्वाद्दीनमुखः सन् अद्रवत्तस्मात्प्रदेशादूरं पलायांचक्रे । 'दीक्षितो न ददाति, न जुहोति' इत्यादिश्रुतेर्नित्यनैमित्तिककर्मत्यागस्य वैधत्वाद्दोषाभावात्ततोपि पलायित इत्यर्थः । नैमित्तिकः, आगतार्थे भवार्थे वा ठकू ॥