पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८००

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८१
सप्तदशः सर्गः।

काकादिः पक्षी पुरुषो वा वृक्षारूढो वृक्षाधःस्थायी वा भयं प्रापत्पूर्वं कदाचित् , तथेत्युपमा । स यथा प्राप्नोति, तथेत्यर्थः । अग्निः कपोतजठरमन्तःप्रविष्टोऽत एव तद्भक्षिता पाषाण कणिकापि जीर्यत इत्यैतिह्यम् । साग्नेरङ्गारभक्षिणः कपोतविशेषो खङ्कारान्भक्षयति । उद्भिदा तृणकाष्ठादिना निर्मितगृहः पुरुषोऽग्न्युद्गारिनेत्रात्स्वोपवेशनमात्रेण गृहदाहाद्यनिष्टसूचकाद्गृहोपरि विलोकितात्कपोताद्धूकात्पक्षिणः सकाशाद्यथा भयं प्राप्नोति तथासावपि । ........कपोतो हि गृहं प्रविष्टोऽनिष्टसूचकः । एवमद्भुतकर्मणोऽतिस्थूलाच्च वृक्षादिरोहिणो दृष्टात्कपोतात्तवृक्षवासी पक्षी नरो वा स्वस्यापि भक्षणशङ्कया शाखापतनशङ्कया वा यथा बिभेति तथेत्यर्थः । एवं यथामति व्याख्यातव्यम् ॥

बिभीतकमधिष्ठाय तथाभूतेन तिष्ठता ।
तेन भीमभुवोऽभीकः स राजर्षिरधर्षि न ॥ २१६ ॥

 बिभीतकमिति ॥ बिभीतकमधिष्ठायाश्रित्य तथाभूतेन तिष्ठता तस्य धर्मोपयोगाभावाद्भयराहित्येन स्थितवता, अथ च- तादृशनलदर्शनात्पूर्वोक्तप्रकारेण बिभ्यता सता स्थितेन कलिना भीमभुवोऽभीकः भैम्याः कामुकः स राजा चासावृषिश्च राजत्वेपि धर्मप्रधानत्वान्मुनितुल्यो नलः नाधर्षि न पराभूतः । अपराभवे राजर्षित्वमेव हेतुः। अथ च-बिभीतकतुल्यं तरुमाश्रित्य तिष्ठता, तथा - अतिमहता भूतेन भूतत्वं प्राप्तेन केनचित्प्रेतेन पिशाचेन भीमाया भयानकाया भूमे रणभूमे रुद्रभूमेर्वा हेतोरभीको भयरहितो राजर्षिर्धार्मिको न पराभूयत इत्युचितम् । भीमां भूमिमनादृत्य निर्भय इत्यनादरे षष्ठी॥

तमालम्बनमासाद्य वैदर्भीनिषधेशयोः।
कलुषं कलिरन्विष्यन्नवात्सीद्वत्सरान्बहून् ॥ २१७ ॥

 तमिति ॥ कलिः तं बिभीतकमालम्बनमाश्रयमासाद्य प्राप्य वैदर्भीनिषधेशयोः कलुषं पापाचरणमन्विष्यन् , गवेषयितुमित्यर्थः। बहून्वत्सरानवात्सीत् । दोषसंस्पर्शनेन विना तयोः पराभवेऽशक्तत्वाद्दोषपरीक्षार्थं बहुकालं तत्रैव स्थित इत्यर्थः । अन्विष्यन्हेतौ शता । अवात्सीद्वसेर्लुङि सिचि 'वदव्रज-' इति वृद्धौ ‘सः स्यार्धधातुके' इति तत्त्वम् । वत्सरान् अत्यन्तसंयोगे द्वितीया ॥

यथासीत्कानने तत्र विनिद्रकलिका लता।
तथा नलच्छलासक्तिविनिद्रकलिकालता ॥२१८॥

 यथेति ॥ तत्र कानने तस्मिन्नुद्याने यथा येन प्रकारे विनिद्रकलिका विकसितकोरका लता वल्ली आसीत्, तथा तेन प्रकारेण नलस्य छले आसक्तिरभिनिवेशस्तद्वशाद्विगतनिद्रो जागरूकः सावधानः कलिलक्षणः कालः समयो यत्र तद्भावस्तत्ता सापि वने आसीत् । विकसितकोरकवल्लीसंबन्धस्तस्योद्यानस्य यथाऽभूत्, तथा सदा (जा.