पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८५
अष्टादशः सर्गः।

 वीरसेनेति ॥ यः सौधभूधरो वीरसेनसुतस्य नलस्य कण्ठभूषणीभूता दिव्या मणयस्तेषां पङ्क्तियौतकलब्धोत्तमचिन्तामणिमाला तस्याः शक्तिभिरलौकिकसामथ्र्यैः कृत्वा कामनयाऽभिलाषमात्रेणोपनमन्तः संनिहितीभवन्तो नलेनान्येन वा लभ्यमाना इष्टा अर्थाः पदार्था यत्र तद्भावस्तत्ता सैव गुणस्तस्माद्धेतोस्तृणीकृतः सुपर्वणां देवानां पर्वतो मेरुर्येन सः । सर्वार्थदायिचिन्तामणिरत्नस्य मेरावत्र च विद्यमानत्वाद्यो मेरुतुल्य इत्युपमा । अत्र बहूनां चिन्तामणीनां सद्भावात्ततोप्याधिक्यं वा ॥

धूपितं [१]यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः ।
जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलम् ॥ ५ ॥

 धूपितमिति ॥ मेचकैः श्यामलैरगरुसंज्ञकैः सारैः श्रेष्ठर्दारुभिः काष्टश्चिरं यदुदरान्तरं यदीयो गर्भभागः धूपितं वासितम् । यदुदान्तरधूपार्थं दह्यमानैस्तैरपितपरिमलमित्यर्थः। तथा-धूपजसंतापत्याजनाय जालप्रकारेषु जालजालेषु सर्वेषु गवाक्षेषु जा- लानां वा जालेषु गवाक्षसंघेषु धृतः स्थापितः चन्द्रचन्दनक्षोदः कर्पूरचन्दनचूर्णं तेन मेदुरः पुष्टस्तत्स्पर्शवशाच्छिशिरतरः परिमलबहुलश्च यः समीरो वायुस्तेन शीतलं शीततरम् । सर्वेप्येत उद्दीपनविभावाः । जालजालेति प्रकारे द्विरुक्तिः, षष्ठीसमासो वा ॥

क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः ।
तेनिरे वितिमिरं स्मरस्फुरद्दोःप्रतापनिकराङ्कुरश्रियः ॥ ६ ॥

 क्वेति ॥ महासुरभि चम्पकादिद्रव्यसुगन्धि तैलं यासु एवंविधा दीपिका यं सौधभूधरं क्वापि भैमीनलालंकृते देशे वितिमिरं विगतान्धकारं तेनिरे प्रकाशमानगर्भं चक्रुः। किंभूताः-कामशरवृत्ताः कामबाणवर्तुलाः कामशरेण कर्पूरेण धूपविशेषेण वा वृत्ता निर्वृत्ता धूपकर्पूरगर्भा वर्तयस्तन्तुसंघरचिता दीपाधारभूता दशा यासां ताः। तथा- स्मरस्य भैमीनलव्यधार्थं स्फुरन्दोःप्रतापनिकरस्तस्याङ्कुराणां प्रथमो दानामिव श्रीः शोभा यासां ताः । एतादृग्दीपिकादर्शनमात्रेण कामोत्पत्तेस्तुल्यरूपत्वाच्च दीपिकाः कामप्रतापाङ्कुरा इवेत्युपमोत्प्रेक्षा । राजनिकटस्था दीपाः कर्पूरादिवृत्तवर्तयः क्रियन्ते । 'पुरसर्जाभयालाक्षानखाजादिजटागदैः । समैः समधुभिर्धूपो मतः कामशराभिधः' इति कामशरो धूपः॥

कुङ्कुगुणमदपङ्कलेपिताः क्षालिताश्च हिमवालुकाम्बुभिः ।
रेजुरध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः ॥ ७ ॥

 कुङ्कुमैणेति ॥ यस्य मुग्धानि रमणीयानि मणिकुट्टिमानि यासु ता भुवो रेजुः । किभूताः-कुङ्कुमं चैणमदः कस्तूरी च तयोः पङ्केन कर्दमेन लेपिताः। तथा जलमध्ये निक्षेपाद्रवीभूतहिमवालुकाम्बुभिः कर्पूरवासितोदकैः क्षालिताश्च । तथा-अध्वनि न-


  1. 'यदुदराम्बरम्' इति जीवातुसुखावबोधासंमतः पाठः ।