पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८८
नैषधीयचरिते

नीति पूर्ववत् । अचेतनास्वलीकास्वपि प्रतिमासु चेतनत्वादिभ्रमोत्पादिनिर्माणनैपुण्याद्भुतभरकम्पितशिराः शिल्पिराडपि ब्रह्मा विश्वकर्मा किमयं जरया निमित्तोद्भूतवाताधिक्यप्रचलितग्रीव इत्युत्प्रेक्षित इत्यर्थः । रमणीयतमोयमिति भावः । 'वातकी वातरोगी स्यात्' इत्यमरः । वातकी मत्वर्थे 'वातातीसाराभ्यां कुङ्क' इतीनिः कुङ्क ॥

भित्तिगर्भगृहगोपितैर्जनैर्यः कृताद्भुतकथादिकौतुकः ।
सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः ॥ १३ ॥

 भित्तीति ॥ यः सौधो भित्तिगर्भे ये गृहा भित्तिभिराच्छादितान्यदृश्यमानविवराणि गर्भागाराणि तेषु तैर्वा गोपितैरदृश्यत्वेन स्थापितैर्जनैः कृत्वा कृतमद्भुतकथादिकौतुकमाश्चर्यजनकरमणीयगोष्ठीगीतनृत्तवादित्रादिसंबन्धिकौतूहलं येन सः। गर्भगृहस्थानामदृश्यमानत्वाद्भित्तय एव गोष्ठ्यादि कुर्वन्ति चित्रमेतदिति बहिर्वर्तमानानां जनानां कौतूहलं यः करोतीत्यर्थः । तथा-सूत्राणां तत्तत्प्रतिमादिसंचारिततन्तूनां यन्त्रान्नियमनादनुपलक्षितस्थानरचनाविशेषात्सूत्ररूपाद्वायन्त्राजातया विशिष्टयाऽद्भुतया चेष्टयाs न्योन्यचुम्बनालिङ्गनतालवृन्तवालव्यजनादिचालनक्रियया कृत्वाश्चर्यसञ्जिन्योतिचमत्कारकारिण्यो बह्वयः शालभञ्जिकाः सुवर्णगजदन्तादिनिर्मिताः पुत्रिका यत्र सः । गोपितैः, ण्यन्तानिष्ठा ॥

तामसीष्वपि तमीषु भितिगै रत्नरश्मिभिरमन्दचन्द्रिकः ।
यस्तपेपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः ॥

 तामसीष्विति यः सौधस्तामसीष्वपि तमीषु तमोबहुलकृष्णपक्षरात्रिषु भित्तिगै रत्नरश्मिभिः कुड्यखचितरत्नकिरणैः सुवर्णादिषु प्रतिफलितैर्मणिबद्धभूमिकिरणैर्वाऽमन्दा भूयसी चन्द्रिका ज्योत्स्ना यत्र । तमोलेशस्याप्यभावात् । तथा ----तपेऽप्युष्णबहुले ग्रीष्मर्तावपि जलधारासंचारिमण्डपस्तम्भादिरचितजलयन्त्रेभ्यः पातुनिर्गमनशीलैरासारैर्धारासंपातैर्दूरं नितरां धुता निराकृता तापजनिता तन्द्रिका मूर्छा निःसंशता येन सः । शीतत्वात्सुखकर इत्यर्थः । तामसी मत्वर्थीयप्रकरणे 'ज्योत्स्नादिभ्य उपसंख्यानम्' इत्यण् । तन्द्रिका तन्द्रीशब्दात्स्वार्थे कनि 'केऽणः' इति ह्रस्वः ॥

यत्र पुष्पशरशास्त्रकारिकासारिकाध्युषितनागदन्तिका ।
भीमजानिषधसार्वभौमयोः प्रत्यवैक्षत रते कृताकृते ॥ १५ ॥

 यत्रेति ॥ यत्र सौधेऽध्युषितोऽधिष्ठितो नागदन्तः शयनस्थाने गृहावयवभूतगजदन्तनिर्मितः पञ्जरो यया सा। तथा-पुष्पशरस्य कामस्य वात्स्यायनादिप्रणीतं शास्त्रं तस्य कारिकाऽभ्यासंबाहुल्याल्कामशास्त्रनिर्माणसमर्थशब्दं करोति एवंभूता सारिका पक्षिणी भीमजानिषधसार्वभौमयोभैमीनलयो रते विषये चुम्बनालिङ्गनादीनां कृताकते विहिताविहिते कर्मभूते प्रत्यवेक्षतानुकारेणानुसंधे । आलिङ्गनादीनां बहवो भेदाः