कामशास्त्रे निरूपिताः। तत्र किंचिदालिङ्गनं कृतम् , किंचिन्न कृतमित्याद्यपश्यदित्यर्थः।
अनुवदति स्म च । अनुचकार चेत्यर्थः । शास्त्रे श्लोकरूपाः कारिका भवति । यज्ञादौ
ब्रह्मादिः कृताकृतावेक्षको भवति । नागदन्तिका 'शेषाद्विभाषा' इति कपि 'प्रत्ययस्थात्-' इतीत्त्वम् ॥
यत्र मत्तकलविङ्कशीलि[१]ताश्लीलकेलिंपुनरुक्तवत्तयोः । |
यत्रेति ॥ यत्र सौधे मत्तैः कलविङ्कैर्गृहचटकैः शीलितानां मुहुः क्रियमाणानां चुम्बनादिराहित्याञ्जनसमक्षं करणाञ्चाश्लीलानां ग्राम्याणां केलीनां सुरतक्रीडानां पुनरुक्तं वर्तते यत्र, तैर्वा कृत्वा पुनरुक्तियुक्तं, यथा तथा क्वापि कस्मिंश्चित्प्रदेशे वापिकाया उत्तंसभूतानि भूषणीभूतानि तत्र वर्तमानानि हंसमिथुनानि तेषां स्मरोत्सवः सुरतक्रीडा तयोर्भैमीनलयोदृष्टिभिस्तद्व्यापारैर्वा अवाप्यलम्भि । अदर्शीत्यर्थः । आदौ कलविङ्ककेलिर्दृष्टा, अनन्तरं च हंसकेलिरिति पुनःपुनः सुरतदर्शनात्पुनरुक्तिः । 'रतान्ते श्लथीभूतगात्राणां कामिनां तिर्यगादिसंभोगदर्शनं पुनः कामोद्दीपकं भवति' इति कामशास्त्रात्तिर्यक्संभोगं पश्यतः स्मति भावः ॥
यत्र वैणरववैणवस्वरैर्हुंकृतैरुपवनीपिकालिनाम् । |
यत्रेति ॥ यत्र सौधे संभोगं कुर्वतोस्तयो भैमीनलयोः सुरतकूजितं कण्ठमात्रस्थाव्यक्तमधुरस्वररूपं वैणरवैर्वीणाशब्दैः, तथा-वैणवस्वरैर्वेणुसंबन्धिभिर्गीतैः, तथा-उपवनीपिकालिनामारामवर्तिनां कोकिलषट्पदानां हुंकृतैः कूजितैः संभुञ्जानाभ्यां ताभ्यां नृत्यन्तो यत्र दृश्यन्ते तैश्च तौ न दृश्येते तादृशे देशे नृत्यतां स्त्रीपुरुषाणां कङ्कणादीनां केयूरनूपुरादिभूषणगणानां कलहैरन्योन्योपमर्दोदितशिञ्जितैश्च कुजितं मन्दीकृतम् । आच्छादितमित्यर्थः । नृत्यन्त्यश्च नृत्यन्तश्च 'पुमान्स्त्रिया' इत्येकशेषः । कुलितं 'तत्करोति-' इति ण्यन्तानिष्ठा ॥
सी[२]सीत्कृतान्यशृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मराचयोः। |
सीत्कृतानीति ॥ अपवरान्तरे गर्भगृहमध्ये रतिस्मरप्रतिमागृहापेक्षयाऽन्यस्मिन्वा गृहे स्थितावपि तौ भैमीनलौ दिवा गवाक्षेष्वपि भित्तिभ्रमादच्छिद्रगृहनिवासवशादन्याना- कर्णनवुड्याविशङ्कयोः शह्कारहितयोः ससंभ्रमंकूजनादि कुर्वतोर्यस्मिन्सौधे प्रतिष्ठितयोः पुरोधसा मन्त्रसामर्थ्याच्चैतन्यमवलम्ब्य प्रतिमायां कृताधिष्ठानयोः रतिस्मरयोर्ये अर्चे सुवर्णादिरचितप्रतिमे तयोः सीत्कृतानि नखदन्तजपीडानुभावसूचकानि सीच्छ-