पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
नैषधीयचरिते

न भवति, किंतर्हि धर्म एव धनं येषां तैर्मन्वादिभिर्द्विषां वैरिणामपि विश्वासजुषां विश्वसितानां निबर्हणं मारणं विशिष्योत्कृष्य विगर्हितं विशेषेण निन्दितम् । धर्मधनैर्निबर्हणं हिंसामानं निन्दितम् । सामान्येनेत्यर्थः। विश्वासजुषां(तु) द्विषामपि निबर्हणं विशिष्य विशेषतो गर्हितमिति वा योजना । विश्वासघातकस्य गुरुप्रायश्चित्तप्रतिपादनात् । यस्तु मारणीयस्तस्यापि विश्वसितस्य मारणं निन्दितम् , किंपुनर्निरपराधस्य मादृशस्येति भावः॥

पदेपदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते ।
धिगीदृशं ते नृपते कुविक्रमं कृपाश्रये यः कृपणे पतत्त्रिणि ॥ १३२

 पद इति ॥ हे नृपते, पदेपदे स्थानेस्थाने रणोद्भटाः सङ्ग्रामदुर्मदा भटाः शूराः सन्ति विद्यन्ते । एष हिंसारसो मारणानुरागस्तेषु भटेषु न पूर्यते परिपूर्णो न भवति इति काकुः । अपितु भवितुं युक्तः । एष हिंसारसस्त्वया भटेषु परिपूर्णः कर्तव्यः । स्थानेस्थाने भटाः सन्ति परमेष हिंसारसो नतेषु नम्रेषु मादृशेषु त्वया पूर्णः क्रियते इति शिरश्चालनेनायुक्तत्वमेव ध्वन्यते । तेषां शूरतरत्वात्तान्प्रति किंचिदपि कर्तुं न शक्नोषीति भाव इति वा । स्थानेस्थाने शूरा न सन्ति । काकुः । एष हिंसारसस्तेषु परिपूर्णो भवितुं युक्तो न त्वस्मास्विति वा । तेषु हिंसारसो न परिपूर्णः क्रियते त्वया, ततश्चास्मासु परिपूर्णः क्रियत इति वा । ईदृशं विश्वासहननलक्षणं ते कुविक्रमं कुत्सितं पौरुषं धिक् । निन्द्यस्ते पराक्रम इत्यर्थः । यः पराक्रमः कृपणे दीने कृपाश्रये करुणास्पदे मयि पतत्त्रिणि पक्षिणि वर्तते । पुनर्धिक्पदमतिशयनिन्दासूचकम् । कौ पृथिव्यां प्रसिद्धं विक्रममिति वा । 'पूरी पूर्तौ (आप्यायने)' इत्यस्य कर्तरि श्यनि पूर्यते इति रूपम् । कर्मणि क्यपि (यकि) वा ॥

फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ।
त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते १३३

 फलेनेति ॥ हे राजन् , वार्येव भूरुत्पत्तिस्थानं वारिभूस्तस्यां रोहन्त उत्पद्यन्ते तेषां कमलानां फलेन पद्माक्षलक्षणेन मूलेन, कन्दादिना च यस्य मम हंसस्येत्थमभिनयेन पुरोवर्तितया दर्शयति । मुनेरिव वृत्तयो जीवनानि । इत्थं सर्वलोकसमक्षमिति वा । तस्मिन्नयनपराधे निस्पृहे ऋषितुल्येऽपि मयि अद्य दण्डधारिणा शास्तिकारिणा त्वया पत्या स्वामिना धरणी पृथ्वी कथं न हृणीयते । अन्यायवर्तिनि प्रिये स्त्रियो यथा लज्जन्ते । वारिरुहां भूरुहां चेति वा । कण्ड्वादिषु 'हृणीञ् रोषे लज्जायां च' इत्यस्माद्धातोः कण्ड्वादित्वात्स्वार्थे यकि मित्त्वात् 'स्वरितञितः-' इति सूत्रेण कर्तृगामिनि क्रियाफले तङ् । 'हृणीङ्' इति पाठान्ङित्त्वात्तङ् । हृणीङ् सौत्रो धातुर्लज्जार्थे [इति] केचित् ॥


 १ 'अत्र विदग्धानुप्रासकाव्यलिङ्गालंकारौ' इति साहित्यविद्याधरी । २ 'क्यपि' इति पाठस्त्वसंगत

एव 'सार्वधातुके यक्' इत्यत्र यक एव विधानात् । ३ 'अत्र विदग्धानुप्रासोऽलंकारः' इति साहित्यविद्याधरी । ४ 'घृणीयते' इति पाठः । ५ 'अत्र यथासंख्योपमालंकारौ' इति साहित्यविद्याधरी ।