पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१०

पुटमेतत् सुपुष्टितम्
७९१
अष्टादशः सर्गः।


मनोभूर्यासु ताः, ब्रह्मणः सुतारिरंसुतायां भोगोत्पादने विषये तद्रूपे वा महत्साहसं कामस्यैव, तेन पौरुषदर्पेण सोल्लासस्य कामस्य संबन्धिन्यो वा इतिहाससंकथाः पुरावृत्ताख्यायिकाः भित्तिषु चित्ररूपेण चित्रकारलिखितोऽखिलः क्रमः परिपाटी यासामेवंभूताः सत्यः तस्थुः । ब्रह्मपराभवादिकामप्रभावाश्चित्ररूपेण यद्भित्तिषु लिखिता वर्तन्ते स्मेत्यर्थः । ब्रह्मणः सुतारिरंसुतादिकं मत्स्यपुराणादवगन्तव्यम् ॥

पुष्पकाण्डजयडिण्डिमायितं यत्र गौतमकलत्रकामिनः ।
पारदारिकविलाससाहसं देवभर्तुरुदटङ्कि भित्तिषु ॥ २१॥

 पुष्पेति ।। यत्र सौधे गौतमकलत्रमहल्यां कामयते कामी तस्य संभुञ्जास्य देवभर्तुरिन्द्रस्य पुष्पकाण्डस्य कामस्य लोकत्रयजये डिण्डिमायितं वाद्यविशेषवदाचरितं पारदारिकस्य परस्त्रीगामिनो विलासवैभवं सुवर्णादिभित्तिषु रचितासु उद्टङ्कि टङ्कैरुत्कीर्य लिखितम् । येनेन्द्रोपि पराभूतः, तादृशस्य महाप्रभावस्य स्मरस्य सेवा युवाभ्यामपि नियतं कार्येति सुवर्णेष्टकचितभित्तिषु कामोद्दीपनार्थमिन्द्रपारदारिकविलासा यत्र टङ्केैरुल्लिखिता इत्यर्थः । डिण्डिमायितम् , उपमानात्कर्तुः क्यङन्तान्निष्ठा । परदारान्गच्छति पारदारिकः 'गच्छतौ परदारादिभ्यष्ठग्वक्तव्यः' इति ठक् । उद्टङ्कि 'टकिक्वन्धे' इत्यस्मात्कर्मणि चिण् ॥

[१] उच्चलत्कलरवालिकैतवाद्वैजयन्तविजयार्जिता जगत् ।
यस्य कीर्तिरवदायति स्म सा कार्तिकीतिथिनिशीथिनीखसा ॥ २२ ॥

 उच्चलदिति ॥ उच्चत्वसौन्दर्यादिना वैजयन्ताख्यस्येन्द्रप्रासादस्य विजयेन याऽर्जिता लब्धा सा कार्तिकी कृत्तिकानक्षत्रयुक्ता तिथिः पूर्णिमा तस्या निशीथिनी रात्रिस्तस्याः स्वसा तद्वदत्युज्ज्वला यस्य प्रासादस्य कीर्तिःकान्तिरुञ्चलतामुड्डीयमानानां कलरवाणां पारावतानामालिः पङ्क्तिस्तस्याः कैतवाद्व्याजाज्जगदवदायति स्म शोधयति स्म । उज्ज्वलं चकारेत्यर्थः। एते कलरवा न भवन्ति, किंतु शरच्चन्द्रचन्द्रिकातुल्या कीर्तिरेवैतस्येत्यर्थः। 'पारावतः कलरवः' 'स्यात्प्रासादो वैजयन्तः' इत्यमरः । दायति 'दैप शोधने' इति भ्वादिरवपूर्वः सकर्मकः, 'लट् स्मे' इति लट् । कार्तिकी 'नक्षत्रेण युक्तः कालः' इत्यणि ङीप्, अत्र कृत्तिकायुक्तो दिवसः कार्तिक इति भाषितपुंस्कत्वसंभवेपि 'तिथयो द्वयोः' इत्यभिधानात्पुंलिङ्गेन तिथिशब्देन समासे स्त्रीलिङ्गस्य समानाधिकरणस्योत्तरपदस्याभावात् 'पुंवत्कर्मधारय-' इति सूत्रेण न पुंवत् । ततश्च कार्तिकी चासौ तिथिश्चेति समासः॥

गौरभानुगुरुगेहिनीस्मरोद्वृत्तभावमितिवृत्तमाश्रिताः ।
रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा ॥ २३ ॥

 गौरेति ॥ गौरभानोश्चन्द्रस्य गुरुगेहिन्यां बृहस्पतिभार्यायां तारायां विषये स्मरज-


  1. उच्छलदिति सुखावबोधापाठः ।