पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९५
अष्टादशः सर्गः।


 इदानीं लज्जानुभावपूर्वं कामशास्त्रानुरोधेन प्रथमसंभोगक्रममाह-

दूत्यसंगतिगतं यदात्मनः प्रागशिश्रवदियं प्रियं गिरः।
तं विचिन्य विनयव्ययं ह्रिया न स वेद करवाणि कीदृशम्॥३१॥

 दूत्येति ॥ इयं प्राक् विवाहात्पूर्व दूत्येन देवदूतव्यापारेण संगतिं गतं संवन्धं प्राप्तं साक्षादृष्टं नलं प्रियमात्मनो विरहप्रकाशिनीर्नवमसर्गोक्ता गिरो वाणीरशिश्रवदाश्राव- यामासेति यत्, तं प्रियस्य स्ववचनश्रावणलक्षणं विनयस्य व्ययं नाशं धार्ष्ट्यं विचिन्त्य विशेषेण स्मृत्वा ह्रिया कृत्वा कीदृशं करवाणीति न वेद स्म नाज्ञासीत् । तदानीं मया यदुक्तं तन्महदनुचितं कृतं, तत्प्रतिक्रिया कीदृशी, प्रकृते चार्थे किं कार्यमिति विनय- व्ययस्मरणाज्जातया ह्रिया किंकर्तव्यतामूढाभूदित्यर्थः । उत्तमत्वं सूचितम् । उत्तमा हि पूर्वानुचितस्मरणालज्जन्ते । अतीतस्मरणेनापि सलज्जाभूत्, प्रारब्धसंभोगानुभवदशायां तु सलज्जत्वं किं वाच्यमिति भावः। अशिश्रवत् शृणोतेर्णै चङि द्विवचने उपधाह्रस्वत्वे 'सन्वल्लघुनि-' इति सन्वद्भावे 'स्त्रवतिशृणोति-' इत्यभ्यासस्य वेत्त्वम् । प्रियं शृणोते: शब्दकर्मत्वाण्णौ कर्मत्वम् ॥

यत्तया सदसि नैषधः स्वयं प्राग्वृतः सपदि वीतलज्जया।
तन्निजं मनसिकृत्य चापलं सा शशाक न विलोकितुं नलम ॥ ३२ ॥

 यदिति ॥ तया सदसि मिलितलोकत्रयसमक्षं वीतलज्जया निर्लज्जया सत्या सपदि स्वयं परप्रवर्तनाद्यभावेप्यात्मनैव वरणमालया कृत्वा प्राक् नैषधो वृत इति यत् , सा तत्तथानलवरणलक्षणं निजं चापलं धार्ष्ट्यं मनसिकृत्य विचार्य तदानीं लज्जां त्यक्त्वा मया महद्धार्ष्ट्यमवलम्बितमेतदनुचितमिति स्मृत्वा लज्जातिशयवशात्तदानीं नलं वि- लोकितुमपि न शशाक । अत्राप्युत्तमत्वं सूचितम् । तच्चापलं मनसिकृत्य विशेषेणेता प्राप्ता चासौ लज्जा च तया कृत्वा नलं वीक्षितुं नाशकदिति वा । मनसिकृत्य पूर्ववत् ॥

आसने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान् ।
तामसूयितवतीव मानिनी न व्यलोकयदियं मनागपि ॥३३॥

 आसन इति ॥ अनुरागातिशयादेकासने वर्तमानयोस्तयोर्मध्ये स नलो मणिमरी- चिभिः खचितोत्तमरत्नप्रसारिकिरणैर्मांसले व्याप्त आसने सिंहासने (स नलः) यां दिशं परिरभ्य यं सिंहासनप्रदेशमाश्रित्य तस्थिवान्, इयं भैमी तां दिशं मनागपि न व्य- लोकयत् । उत्प्रेक्षते-असूयितवतीव ईर्ष्यावतीव । दिशः स्त्रीत्वादियं मद्भर्त्रालिङ्गि- तेति सपत्नीबुद्ध्याऽसूयां कृतवतीव तां नापश्यदित्यर्थः । यतो मानिनी । लज्जाभयाभ्यां नापश्यत् , तत्रेयमुत्प्रेक्षा । असूयितवती कण्ड्वादियगन्तात् त्कवतुः, उगित्त्वान्ङीप् ॥

ह्रीसरिन्निजनिमज्जनोचितं मौलिदूरनमनं दधानया।
द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम् ॥ ३४॥