पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९६
नैषधीयचरिते

 ह्रीति ॥ निरन्तरप्रवाहरूपत्वाध्दीरूपायां सरिति निजस्यात्मनो निमज्जनं तस्योचितं योग्यं मौले: शिरसो दूरं नितरां नमनमानाभेर्नम्रीभावं दधानया, तथा द्वारि गृह- द्वारदेशे चित्रलिखितयुवतिवत् श्रीः शोभा यस्यास्तया लज्जाभयाभ्यामन्तः प्रवेष्टुम- शक्ततयाऽतिनिश्चलया तत्रैव स्थितया भैम्याऽपि भैम्यागच्छेति भर्तुर्नलस्य हूतीना- माह्वानानां शतमश्रुतीकृतं श्रुतमश्रुतं कृतम् । श्रुतं लज्जाभयाभ्यामनुत्तरादनागमना- च्चाश्रुतमिव कृतमित्यर्थः । नवोढाजातिरियम् ॥

वेश्म पत्युरविशन्न साध्वसाद्वेशितापि शयनं न साऽभजत् ।
भाजितापि सविधं न सास्वपत्स्वापितापि न च संमुखाभवत् ॥ ३५॥

 वेश्मेति ॥ सा किमग्रे भविष्यतीति साध्वसाद्भयात्पत्युर्वेश्म न स्वयमविशत् । अन- न्तरं सख्या नलेन वा वेशितापि गृहमध्यं प्रापितापि शयनं नाभजत् । ततोपि सख्या नलेन वा शयनं भाजितापि सा सविधं नलसमीपं यथातथा नास्वपत् किंतु दूरत एव निद्राति स्म । ततोपि सख्या नलेनैव वाङ्कपाल्यादिना सविधं स्वापितापि न च सं- मुखाऽभवत् , किंतु शय्यापार्श्वपट्टिकावलम्बिनी पराङ्मुख्येवाभूदित्यर्थः । प्रथमसंभोगे मुग्धाया जातिरियम् । साध्वसादिति सर्वत्र । अस्वपत् 'अङ्गार्ग्य-' इति लङयट् । सं- मुखा 'स्वाङ्गाच्चोपसर्जनात्-' इति विकल्पान्न ङीष् ॥

के[१]वलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति ।
भीमजाहृदि जित: स्त्रिया ह्रिया मन्मथोपि नियतं स लज्जितः॥३६॥

 केवलेति ॥ भीमनन्दिनी केवलं नैषधं प्रत्युद्दिश्य दूरं नितरामत्रपत लज्जां प्रापेति न, किंतु भीमजाहृदि वर्तमानया ह्रिया लज्जारूपया स्त्रिया जितः खलु जित एव सो- तिप्रसिद्धपराक्रमः हृद्येव वर्तमानो मन्मथोपि नियतं बहुकालं लजितः । अथच-मनो मथ्नाति पीडयतीति मन्मथः पृषोदरादिः । एवंविधोपि जितो लज्जितः संकुचितश्चेति चित्रम् । ह्रीवशान्नलविषयोतिपीडाकरोपि कामो बहुकालं तामभिभवति स्मेति भावः। अन्योपि स्त्रिया जितो लजते ॥

आत्मनापि हरदारसुन्दरी यत्किमप्यभिललाष चेष्टितुम् ।
खामिना यदि तदर्थमर्थिता मुद्रितस्तदनया तदुद्यमः ॥ ३७ ॥

 आत्मनेति ॥ हरदारवद्गौरीवत्सुन्दरी सा आत्मनापि स्वयमेव यत्किमपि यत्किं- चिच्चेष्टितुं तवसरोचितं कटाक्षवीक्षणताम्बूलदानतालवृन्तचालनाद्यभिललाप कर्तु- मैच्छत् । तदर्थं तस्मै प्रयोजनाय तद्वस्तुदानाय इङ्गितज्ञेन स्वामिना नलेन ताम्बूलं दे- हीति यदि अर्थिता याचिता तर्ह्यनया भैम्या तस्य नलस्योद्यमो याचनप्रयत्नो मुद्रितः ताम्बूलादीनामदानाद्य्वर्थीकृतः । तेन याचिता सती न ददाविति भावः । अपिरेवार्थे ।


  1. जीवातौ न वर्तते ॥