पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९८
नैपधीयचरिते


तत्रापि चालिङ्गनमेव पूर्वम्' इति । 'तथा सामीप्यगां भीरुं नवोढां संनिधापयेत् । विश्वासच्छद्मना गाढालिङ्गनात्याजयेद्भयम्' इत्यादि । संनिधिस्थापनव्याजेन गाढमा- लिङ्गय भयं त्याजितवानिति भावः ॥

प्रागचुम्बदलिके ह्रियानतां तां क्रमाद्दरनतां कपोलयोः ।
तेन विश्वसितमानसां झटित्यानने स परिचुम्ब्य सिष्मिये ॥ ४१ ॥

 प्रागिति ॥ स ह्रिया आनतामतिनम्रां तां प्रागलिके ललाट एवाचुम्वत् । अतिनम्र- त्वात्तदानीं कपोलादिचुम्बनस्याशक्यत्वादित्यर्थः । ततः-किंचिद्गतचुम्बनभयत्वात्पू- र्वापेक्षया दरमीषन्नतां किंचिदुन्नतमुखीं क्रमात्परिपाट्या तदानीमेवान्यदा वा कियता द्वयोरपि कपोलयोश्चुचुम्ब । तेन कपोलचुम्बनेन ततोपि विश्वसितं मानसं यस्यास्तां ततोऽप्युन्नतमुखीमानने झटिति मुखवक्रणाभयाच्छीघ्रं परिचुम्ब्य दुर्लभाधरचुम्बनला- भजनितानन्दवशासिष्मिय ईषदव्यक्तमहसत् । स्फुटहासे पुनर्लज्जा स्यादिति भया- दीषज्जहासेत्यर्थः । अथ च यदेतावत्पर्यन्तं त्वया वञ्चितं तदपीदानीं मया लब्धमिति हासः। ललाटादीनि कामशास्त्रोक्तानि चुम्बनस्थानानि इयमपि । विस्त्रम्भणरीतिः ॥

लज्जया प्रथममेत्य हुंकृतः साध्वसेन बलिनाथ तर्जितः ।
किंचिदुच्छ्वसित एव तड्वृदि न्यग्बभूव पुनरर्भकः स्मरः ॥ ४२ ॥

 लज्जयेति ॥ ललाटादिचुम्बनक्रमानुभवजातसुखविशेषोल्लसितकामोदयायास्तस्या हृदि मानसे किंचिदुच्छ्वसित एव विकसित एवार्भको मुग्धत्वादप्रौढः स्मरः प्रथमं चु- म्बनजनितया लज्जया एत्यागत्य हुंकृतः हुंकारेण निषिद्धः । अथ पश्चाद्बलिना प्रबलेन चुम्बनजन्येन साध्वसेन सात्त्विकभयेन तर्जितो भर्त्सितोऽस्मदीयं भैमीहृदयलक्षणं स्थानं त्वया प्रविष्टं तिष्ठेत्याक्षेपपूर्वं लज्जाभयाभ्यां भर्त्सित इत्यर्थः । एवकारो विलम्ब- द्योतनार्थः । अर्भकोपि किंचिच्चेष्टितुमुद्युक्तो मात्रा पूर्वमागत्य हुंकृत्य पश्चात्प्रभुणापि वाचा तर्जितः सन्संकुचितो भवति । हुंकृत इव तर्जित इवेति च प्रतीयमानोत्प्रेक्षा ॥

वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम्
एककश्चिरमरोधि बालया तल्पयन्त्रणनिरन्तरालया ॥ ४३॥

 वल्लभस्येति ॥ स्मरोत्सवे सुरतोत्सवारम्भेऽङ्कपालिकां कृतपृष्टवेष्टनबाहुवलयालिङ्गानं प्रसभं हठाद्दित्सतोः कर्तुमिच्छतोर्वल्लभस्य नलस्य भुजयोर्मध्ये एकको भुजः बालया सुरताप्रौढया तया चिरमरोधि प्रतिबद्धः। कीदृश्या-तल्पस्य शय्याया यन्त्रणेन स्वपृ- ष्ठदृढपीडनेन निरन्तरालया निरवकाशया। आलिङ्गनार्थं पृष्ठदेशे नलभुजप्रवेशो यथा न भवति तथा दृढं शय्यासंलीनयन्त्रणेन निरवकाशत्वाद्भुजरोधनाच्चालिङ्गनविघ्नं स- माचरदित्यर्थः । अबलत्वादेकदैव द्वयोर्भुजयोः प्रतिरोद्धुमशक्यत्वाद्द्वाभ्यामपि निजभु- जाभ्यामेकैकस्य नलभुजस्य पर्यायेण रोधनादेकक इत्युक्तेपि द्वावपि भुजौ निरुद्धाविति ज्ञेयम् । एकक इति पर्यायाशयेनोक्तम् । द्वाभ्यामेकस्यैव निरोधेपि द्वितीयेन स्पर्शमात्रं