पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९९
अष्टादशः सर्गः।

कर्तुं शक्यते, न तु द्विभुजसाध्यमङ्कपाल्यालिङ्गनमित्येकक इत्युक्तमिति वा । अन्योन्याभिमुख्येन सुप्तयोस्तयोरधस्तनबाहू शय्यासंलग्नत्वाच्छय्ययैव नियन्त्रितौ । आलिङ्गनोयुक्तः शय्यासंलग्नो नलबाहुस्तल्पयन्त्रणनिरवकाशत्वात्पृष्ठदेशे प्रवेष्टुमशक्यत्वादवरुद्धः । उपरितनस्तूपरितनेन भैमीबाहुना चिरं प्रतिरुद्ध इत्याशयः ॥

हारचारिमविलोकने मृषा कौतुकं किमपि नाटयन्नयम् ।
कण्ठमूलमदसीयमस्पृशत्पाणिनोपकुचधाविना धवः ॥ ४४ ॥

 हारेति ॥ हारस्य एकावल्यादिमुक्ताहारस्य चारिमा सौन्दर्यं तस्य विलोकने विषयेऽतिवृत्तस्थूलमुक्तायुक्तोऽत्यद्भुतोऽयं त्वदीयो हारो दर्शय दर्शयैनमित्यादि किमपि लोकोत्तरं मृषाकौतुकं नाटयन्नभिनयन्नयं धवो भर्ता नलः स्पर्शलोभवशादुपकुचं स्तनसमीपं धावत्येवं शीलेन पाणिनाऽदसीयं भैम्याः संबन्धि कण्ठमूलं कण्ठाधोभागमस्पृशत् । सार्वभौमस्य तस्यापूर्वस्य वस्तुजातस्य दृष्टत्वात्कुचस्पर्श एव तात्पर्याञ्च ता- त्त्विककौतुकाभावेपि साक्षात्करस्पर्शमसहमानायास्तस्या हारसौन्दर्यदर्शने मृषाकौतुकनाटनेन कण्ठमूलस्पर्शव्याजेन कुचावेव स्पर्शति । मुग्धाविस्रम्भणजातिः ॥

 पुनः स्तनस्पर्श उपायान्तरमाह-

यत्त्वयास्मि सदसि स्रजाञ्चितस्तन्मयापि भवदहर्णार्हति ।
इत्युदीर्य निजहारमर्पयन्नस्पृशत्स तदुरोजकोरकौ ॥ ४५ ॥

 यदिति ॥ स इत्युदीर्योक्त्वा भैमीकण्ठे निजमुक्ताहारमपर्यन् सन् हारार्पणमिषेण तस्या उरोजावेव काठिन्यादिगुणत्वेन कोरकौ पस्पर्श । इति किम्-हे भैमि सदसि सभामध्ये त्वयाऽहं स्रजा मधूकमालया कृत्वा यद्यस्मादञ्चितः सर्वेषां समक्षं पूजितोऽस्मि । तत्तस्मान्मयापि भत्कर्तृका भवत्या अर्हणा पूजा अर्हति । उपकारस्य प्रत्युपकर्तव्यमिति न्याययुक्तेति । अर्हणा कृतेत्यपि पाठः ॥

नीविसीम्नि निहितं स निद्रया सुभ्रुवो निशि निषिद्धसंविदः ।
कम्पितं शयमपास यन्नयं दोलनैर्जनितबोधयाऽनया ॥४६॥

 नीवीति ॥ जाग्रवस्थायां करं निराकरिष्यतीति बुद्ध्या निशि निद्रया निषिद्धा वारिता संविज्ञानं यस्यास्तस्याः सुभ्रुवो भैम्या नीविसीन्नि रसनाकलापमोचनार्थं वसनपट्टिकापरिसरे निहिते स्थापित एव नीविस्पर्शमात्रेण कम्पितं सात्त्विककम्पयुक्तं शयं हस्तं स नलो दोलनैः समुद्भूतस्वगतसात्त्विककम्पनिमित्तहस्तचालनैर्जनितबोधया त्याजितनिद्रयाऽनया भैम्या करणभूतयापास निराकृतवान् । कीदृशः--अयं शुभावहविधिम् । संभोगानन्दमिति यावत् । तं यन् प्राप्नुवन् । 'अपासयन्निजम्' इति पाठे- भैम्या प्रयोज्यया स प्रयोजको नलो निजं करमपासयदमोचयदित्यर्थः । कम्पमानकरसंस्पर्शमात्रेण जातबोधया तदीयः करो निराकृत इत्यर्थः । अनयेति करणे तृतीया। पाठान्तरे तु प्रयोज्यकर्तरि ॥