पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८००
नैषधीयचरिते


स प्रियोरुयुगकञ्चुकाशुके न्यस्य दृष्टिमथ सिष्मिये नृपः ।
आववार तदथाम्बराञ्चलैः सा निरावृतिरिव त्रपावृता ॥४७॥

 स इति ॥ स नृपः प्रियाया ऊरुयुगस्य कञ्चुकांशुके आवरणभूते वस्त्रे दृष्टिं न्यस्य अथानन्तरमेव सिष्मिये ईषदहसत् । सूक्ष्मवस्त्रावृतत्वात्सर्वं मया द्रष्टुं शक्यत एवेत्याशयेनेत्यर्थः । ल्यपा पूर्वकालत्वेऽभिहिते स्मितस्यानन्तर्येप्यव्यवहितेतरत्वद्योतनार्थमथशब्दः । नीविस्थापितकरापासनानन्तरमिति वा । अथ नलस्मितानन्तरं निरावृतिरिव वस्त्ररहितेव पावृता सती सा तदूरुयुगवस्त्रं वस्त्रस्य तस्यैवाञ्चलैरग्रभागैराववाराच्छादयामास । वस्त्रस्यातिसूक्ष्मत्वाद्वृथासंभवितनिजगोप्याङ्गदर्शना सती धनावयवत्वसंपादनार्थ तद्वस्त्रं तदञ्चलैरेव प्रावृणोदिति भावः । कामिनोरियं जातिः । अञ्चलैरिति बहुत्वं पुनःपुनरावरणक्रियाभे[१]दात् ॥

बुद्धिमान्व्यधित तां क्रमादयं किंचिदिन्थमपनीतसाध्वसाम् ।
किंच तन्मनसि चित्तजन्मना ह्रीरनामि धनुषा समं मनाक् ॥ ४८ ॥

 बुद्धिमानिति ॥ बुद्धिमान् कामशास्त्रोक्तकन्याविस्रम्भणप्रकारचतुरोऽयमित्थं पूर्वोक्तरीत्या क्रमात्परिपाट्या तामपनीतसाध्वसां त्याजिताकस्मिकसंभोगभयां व्यधिताकृत। किंचेत्यधिकोक्तौ । न परमेतावदेव, किंत्वन्यच्च-तस्या मनसि वर्तमाना ह्रीस्तत्रैव स्थितेन चित्तजन्मना स्वधनुषा समं सह मनाक् अनामि शिथिलिता । कामेन धनुषि किंचिदारोप्यमाणे लज्जाप्यल्पा जातेत्यर्थः । पूर्व कामो अयलज्जाभ्यां त्याजितः । इदानीं तु भैमीभयं नलेन निराकृतम्, एका स्त्रीव ह्रीरवशिष्टा, सा कामेन सुखेनाल्पितेति भयलज्जयोः किंचिदपासनेन पूर्वं मन्दीभूतोपि कामः स्तोकं पुनरुल्लुलासेति भावः । अनामि 'ज्वलह्रल-' इति वार्तिकान्मित्त्वस्य पाक्षिकत्वान्मित्त्वाभावे ह्रस्वाभावः। मित्वेऽपि वा 'चिण्णमुलोः-' इति पाक्षिको [२]दीर्घः ॥

सिष्मिये हसति न स्म तेन सा प्रीणितापि परिहासभाषणैः
स्वे हि दर्शयति ते परेण कानर्घ्यदन्तकुरुविन्दमालिके ॥ ४९ ॥

 सिष्मिय इति ॥ तेन परिहासभाषणैः परिहासप्रधानः सप्रेमवचनैः प्रीणिता जनितप्रीतिरपि सा तस्मिन्हसत्यपि विकसत्कपोलनयनमलक्षितदन्तं सिष्मिये स्मितं चकार। दर्शितदन्तं प्रसरद्धास्यं तु न चकार । अन्या तु परिहासप्रीणिता हसति, इयं तु नेति चित्रमित्यपिशब्दार्थः । हि यस्मात्ते प्रसिद्ध अनर्ध्या निर्मूल्याः सुलक्षणा दन्तास्त एव ताम्बूलरागत्वात्कुरुविन्दानि माणिक्यानि तेषां मालिके अल्पे ह्रस्वे वा माले स्वे आत्मीये सर्वस्वरूपे का कुलीना स्त्री परेणान्येन हास्येन येन केनचित्पुरुषेण च दर्शयति दर्शनवत्यौ करोति । अपि तु हास्यं स्त्रीणां दोषायेत्युत्तमस्त्रीत्वात्प्रकटितदशनं हास्यं न


  1. 'आवृतमप्यनावृतमितीवावृणोदिति त्रपातिशयोक्तिः' इति जीवातुः
  2. 'अत्र हि नमनधनुर्नमनयोः कार्यकारणयोः पौर्वापर्येण सहोत्तयलंकारः' इति जीवातुः