पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०३
अष्टादशः सर्गः।


 तदिति ॥ नलोऽमूं भैमी शश्वनिरन्तरमित्याश्वसनं विश्वासहेतुं वच ऊचिवान् । इति किम्-हे भैमि, बहुविधेष्वालिङ्गनचुम्बनादिषु मध्ये यत्त्वमभ्युपैषि मन्यसे तत्परं केवलं करोमि, नान्यत् । तस्माद्भियं मा न्रज पुमङ्गसङ्गेन किं वा भावीति चित्ते धृतां भियं परित्यज । यतोऽहं त आलिवर्ग इव सखीसमूहतुल्यः। तस्मात्तस्मिन्यथा विश्वसिषि तथा मय्यपि विश्वसिहि । भयं मा यासीरिति । इह त इति पाठे-इह चुम्बनादौ विषयेऽहं तवालिवर्ग ए(इ)व । सखीकर्तृके चुम्बनादौ यथा कापि न भीति स्तथानापीत्यर्थः॥

येन तन्मदनवह्निना स्थितं हीमहौषधिनिरुद्धशक्तिना।
सिद्धिमद्भिरुदतेजि तैः पुनः स प्रियः प्रियवचोभिमन्त्रणैः ॥५७॥

 येनेति ॥ येन तस्या मदनरूपेण वह्निना ह्रिरेव महौषधिर्दिव्यौषधिस्तया निरुद्धा शक्तिः सामर्थ्यं यस्य तेन लज्जया निलीनेन स्थितं स कामाग्निः पुनः सिद्धिमद्भिः प्रकृतार्थसाधनसमर्थेस्तैरुक्तरूपैः प्रियस्य प्रियवचांसि तद्रूपाण्यनुमन्त्रणानि रहस्यमन्त्रजपास्तैरुदतेजि अदीपि प्रकाशीकृतसामर्थ्योऽकारीत्यर्थः। पूर्वोक्ताश्वासनवचनैः पुन- रुद्दीप्तकामा जातेति भावः । अन्योपि वह्निरौषधप्रतिबद्धशक्तिः सुसिद्धैरग्निप्रकाशकैर्मन्त्रैः पुनरुदतेजि उद्दीप्यते स्म । 'तिज निशाने' निशानमुद्दीप्तकरणम् । अत्र क्षमार्थाभावान्न सन् ॥

यद्विधूय दयितार्पितं करं दोद्वयेन पिदधे कुचौ दृढम् ।
पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदि स्थितमिवालिलिङ्ग तत् ॥

 यदिति ॥ सा दयितेन मर्दनार्थं कुचयोरुपर्यर्पितं करं कराभ्यां विधूय निराकृत्य [१]स्वदोद्वयेन कररूपेण दृढं कुचौ यत्पिदधे तत्तेन कुचपिधानप्रकारेण पार्श्वगं पुरः समीपे स्थितं प्रियं ह्रियाऽपास्य हृदि स्थितं तमेवालिलिङ्गेवेत्युत्प्रेक्षा । स्त्रीणां याचने य- न्निवारणं तदेव कामस्य परमायुधम् । आलिङ्गनेन यथा कामः प्रदीप्तो भवति, तथा कुचमर्दननिषेधपरेण कुचपिधानेनापि नलः प्रदीप्तकामो जात इति भावः । मुग्धाजातिरियम् ॥

अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।
इत्यसिस्स्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् ॥ ५९ ॥

 अन्यदिति ॥ इति एवंप्रकारा उपांशुर्मन्दा भीत्या प्रार्थनादेव(न्य)वशात्, काकुर्ध्वनिविकारयुक्ता वाक् यस्य स नलो दीनप्रार्थनवशात्किंचिद्नुमतौ सत्यामुपमर्दै दन्तदशनौष्ठपीडनगाढालिङ्गनादौ यो हठस्तेन सहिता वृत्तिरधरपानादिव्यापारो यस्य, सोपमर्दा करधूननादिना सविघ्नाऽधरपानहठवृत्तिर्यस्य वा एवंभूत एव सन् तमधरमसिस्वददपात् । एवमालिङ्गनाद्यपि । इति किम्-हे भैमि, अहं भवतीं त्वामन्यदपरं


  1. 'स्वस्ति (क) स्वरूपेण करद्वयेन' कलिकातामुद्रितपाठः ।