पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०४
नैषधीयचरिते

किमपि कुचमदनादि न याचिता स्म याचिष्ये, किं तर्हि-अहमेकवारं तेऽधरं धयामि पिबामीति । [१] आशया दीनवचनम्, पाने तु बलात्कारः । एकवाराधरपानानुमतेरुपमर्दैन भङ्गेन सहिता हठवृत्तिरननुमतद्वितीयाद्यधरपानव्यापारो यस्येति वा । एकवाराधरपानमात्रानुमतौ लब्धायामालिङ्गनाद्यपि द्वितीयाद्यधरपानमप्यकरोत् , अपराधमार्जनं त्वनन्तरं करिष्यामीति बुद्ध्वेति भावः । पूर्वमोष्ठपानमात्रमकरोत्, अनन्तरं नखक्षताद्यपीति केचित् । अन्यदेति पाठे-क्षणान्तरे पुनरधरपानमपि न याचिष्य इत्यर्थः । सोयमर्धेति पाठे-सोऽयमर्धः किंचिन्मात्रो हठो यत्रैवंविधो व्यापारो यस्य । पूर्वपाठे स इति शेयम् । याचिता तृच् । वारं काले द्वितीया ॥

पी[२]ततावकमुखासवोऽधुना भृत्य एष निजकृत्यमर्हति ।
तत्करोमि भवदूरुमित्यसौ तत्र संन्यधित पाणिपल्लवम् ॥ ६० ॥

 पीतेति ॥ असौ नल इत्युक्तिव्याजेन तत्रोरौ पाणिपल्लवं मृदुसुखस्पर्शतया पल्लवतुल्यं पाणिं संन्यधित स्पष्टुं संनिवेशितवान् । इति किम्-हे भैमि, एष भृत्यो मल्लक्षणो दासः पीतस्तावकमुखमेवासवो मद्यं येन, अथच -पीतस्त्वदीयमुखस्य सुरागण्डूषो येन, एवंभूतः सन्नधुना निजकृत्यं चरणसंवाहनादिरूपं भृत्यसंवन्धिकार्यं कर्तुमर्हत्युचितो भवति । तत्तस्माद्गृहारामपुष्पावचयादिना खिन्नं भवदूरुं त्वदीयमूरुं करोमि सं- वाहयामि । अथच-सामर्थ्यादूर्ध्वं करोमीति । अनेकार्थत्वात्करोतिः संवाहनार्थः । अन्योपि भृत्यो भुक्तमुखोच्छिष्टश्चरणसंवाहनं करोति ॥

चुम्बनादिषु बभूव नाम किं तद्वृथा भियमिहापि मा कृथाः।
[३] इत्युदीर्य रसनावलिव्ययं निर्ममे मृगदृशोऽयमादिमम् ॥ ६१ ॥

 चुम्बनेति ॥ इत्युदीर्य अयं मृगदृशस्तदानीमतितमां चञ्चलदृशो भैम्या आदिमं कदाचिदप्यकृतपूर्वत्वात्प्रथमं रसनावलिव्ययं मेखलाकलापमोचनं निर्ममे चक्रे । ऊरुस्पर्शादौ वाम्यं भयं च भजन्त्या भैम्या एवं विनम्भणपूर्वकं वसनमाचकर्षेति भावः । इति किम्-हे भैमि, नामेत्यनुभूतविषयप्रश्नाभिनये । हे भैमि, चुम्बनालिङ्गनादिषु किं नाम विरुद्धं बभूव, अपि तु न किंचित् । तत्तस्मादिहाप्यस्मिन्क्रियमाणे सुरतारम्भेपि, ऊरुपीडने वा, मेखलामोचने वा वृथा अकारणां भियं मा कृथाः ॥

अस्तिवाम्यभरमस्तिकौतुकं सास्तिधर्मजलमस्तिवेपथु ।
अस्तिभीति रत्नमस्तिवाञ्छितं प्रापदस्तिसुखमस्तिपीडनम् ॥६२॥

 अस्तीति ॥ सा एवंभूतं रतं प्रापत् । किंभूतम्-आरम्भसमयेऽस्ति वर्तमानो वाम्यभरो रतिप्रातिकूल्याचरणबाहुल्यं यत्र । आरम्भानन्तरं चास्ति कौतुकमननुभूत-


  1. 'अपाने' इति कलिकातामुद्रितपाठः ।
  2. अयं श्लोको जीवातौ न व्याख्यातः ।
  3. 'आलपन्निति तदीयमादिमं स व्यधत्त रसनावलिव्ययम्' इति जीवातुसंमतः पाठः ।