पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०९
अष्टादशः सर्गः।


उत्सुकं कौतुकिनममुं धूनितेन कम्पितेन शिरसा कृत्वा निरास निषिषेध । इति किम्-हे भैमि, त्वं मह्यं सुरतं देहि प्रसीदेति सुरतयाचिनं मां यद्यस्मान्नेति न आत्थ अतो हेतोः 'अप्रतिषिद्धमनुमतं भवति' इति न्यायेन सुरतं कुर्विति मामनुमतवत्यसि अनुशातवती त्वमसीति । इयं सुरतं नानुमन्यते, परं मया सह न वदत्यपीत्येवं परिहासभाषणे क्रियमाणे निषेधार्थमपि किंचिद्वदिष्यतीत्याशया नलेन तद्वाचनार्थमेवं यत्ने कृतेपि कुशला लज्जाधैर्यवशाच्छिरोधूननेनैव तं न्यषेधत्, नतु साक्षादक्षरमप्युवाचेति भावः॥

या शिरोविधुतिराह नेति ते सा मया न किमियं समाकलि।
तन्निषेधसमसंख्यता विधिं व्यक्तमेव तव वक्ति वाञ्छितम् ॥७६॥

 येति ॥ हे भैमि, ते या शिरोविधुतिः शिरःकम्पः नेत्याह निषेधार्थं ब्रूते । मया सेयं किं न समाकलि न सम्यग्ज्ञाता, अपि तु-सम्यग्ज्ञातैव । कथमित्याह-तयोः शिरोविधुतियुगरूपयोर्निषेधयोर्या समसंख्यता तुल्यता सा तव वाञ्छितं सुरतरूपं विधिं व्यक्तमेव वक्ति वदति सुरतं तवेष्टमित्याहेत्यर्थः। द्वयोरेव निषेधयोः सुन्दोपसुन्दन्यायेनान्योन्यघातात् 'द्वौनञो प्रकृतमर्थं गमयतः' इति न्यायेन च सुरतं त्वया विधेयमेवेति मां प्रति विधावेव तात्पर्यमिति मया त्वदाशयो ज्ञात इति भावः। इति पुनरपि भैमीवादनार्थं वक्रोक्तिः। विधिरिति पाठे-तस्य मत्प्रार्थितस्य शिरोधूनति(न)द्वय रूपौ निषेधौ तयोः समसंख्यतैव विधिस्ते तवाभिलाषं स्पष्टमेव वक्तीति व्याख्येयम् ॥

नात्थ नाथ शृणवानि ते न किं तेन वाचमिति तां निगद्य सः।
सा स्म दूत्यगतमाह तं यथा तज्जगाम मृदुभिस्तदुक्तिभिः ॥७७॥

 नेति ॥ स नलः तामिति पूर्वोक्तं निगद्योक्त्वा सा दूत्यं गतं दूत्येन हेतुना वा भैमीसविधं गतं तं नलं 'तदद्य विश्रम्य वृणे-' इति यथा आह स्म ब्रूते स तदेव मृदुभिरतिमञ्जलाभिस्तस्या भैम्या उक्तिभिस्तद्भाषणानुकारिणीभिः जगाद । तादृगेवानू- दितवानित्यर्थः । इति किम्-हे भैमि, अहं ते वाचं न शृणवानि, तेन मदश्रवणेन हेतुना भया नाकर्णनीयमिति बुद्ध्या त्वं नात्थ नात्थ न ब्रूषे न ब्रूषे किम् । त्वद्वाक्यानि मया पूर्वमेवाकर्णितानि, इदानीं तव भाषणं मया न श्रोतव्यमिति वृथैवेयं मुखमुद्रणेति त्वया वक्तव्यमित्यवददिति भावः । त्वं नात्थेति स्वरभङ्गया मा वादीरित्यर्थः। किमित्याक्षेपे वा । युग्मम् ॥

नीविसीम्नि निबिडं पुराऽरुणत्पाणिनाऽथ शिथिलेन तत्करम् ।
सा क्रमेण नननेति वादिनी विघ्नमाचरदमुष्य केवलम् ॥ ७८ ॥

 नीवीति ॥ सा पुरा प्रथमसंभोगारम्भे नीविसीम्नि वर्तमानं तस्य करं स्वपाणिना निबिडमतिगाढं यथा तथाऽरुणत् । अथानन्तरं क्रमेण भयभङ्गानन्तरं दिनान्तरे नितम्बजघनस्पर्शकारिणं नलकरं शिथिलेन पाणिना रुरोध । ततोपि लज्जाविजयानन्तरं