न न नेति वादिनी सती अमुष्य नलकरस्य नलस्यैव वा केवलं विघ्नमाचरत् । नननेत्युक्ते यदि न निवर्तेत, (तर्हि ) मा निवृतत्, वदामि तावदेवमिति वचोमात्रेण विघ्नमाचरत्, न तु कर्मणेति भावः । मुग्धाजातिः। भयलज्जात्यागः सूचि[१]तः ॥
रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम् । |
रूपेति ॥ सा रूपेषु देववरदानात्कायधारणानिर्मितेषु सौन्दर्यविशेषेषु, वेषेषु महाराष्ट्रलाटगुर्जरादिस्त्रीधृतवस्त्रालंकारादिशृङ्गारभङ्गीषु,वसनेषु नीलपीतदुकूलादिवस्त्रेषु, अङ्गवासनासु चन्दनकस्तूरीकर्पूराद्यङ्गरागैरगुरुचन्दनादिधूपैश्च कृतेषु देहामोदेषु, भूषणेषु सौवर्णेषु मुक्तामाणिक्यहीरकादिखचितेष्वलंकारेषु, तदादिषु च भाषान्तरेषु विषये पृथक् प्रत्येकं प्रतिदिनमन्यस्या दिव्ययुवते रम्भादिस्वर्गस्त्रिया भ्रमे क्षमा समर्थां रम्भादिरियमेवेति भ्रान्तिकारिणीं विदग्धतां चातुरीमेत्य प्राप्यात एव नवा नवा नूतना नूतना सती नित्यं तमगात् । संबुभुज इत्यर्थः । अन्वहमन्यैवेयमिति तस्य चेतसि स्फुरितेत्यर्थः । वा इवार्थः । नित्यं नवेव नागात् , अपि तु नवीनेव जगामेति काकुर्वा । अन्वहं नूतनत्वादनुरागातिशयादन्यावरोधाङ्गनासंभोगविमुखो नलो जात इति भावः । क्षमेति पाठे-भैमीविशेषणम् ॥
इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् । |
इङ्गितेनेति ॥ सा अधिका सर्वगुणैरुत्कृष्टा चतुरा च तमधिकमतितरां वशमात्मन्यनुरागिणं व्यधत्त चकार । किंचित्प्रौढाभूदित्यर्थः । किं कृत्वा-इङ्गितेन 'सख्यादिषु भर्तृगुणवर्णनपूर्वं भाषणम्, तद्दोषापलापः, पश्चादाभिमुख्येन शयनम्, पूर्वमुत्थानम्, आगमने तुष्टिः, प्रवासे वैमनस्यम् , सदा समसुखदुःखता,' इत्याद्यनुरागद्योतकेन चेष्टितेन निजम् अगाधत्वादनुरागमेव नीरधिं नलं संविभाव्य सम्यग्ज्ञापयित्वा, तथा-चटुभिः 'भवादशोऽतिसुन्दरोतितेजस्वी वदान्यः सर्वकलाकुशलः कः, अपितु-न कोपि' इत्यादि प्रियभाषणैर्गुणज्ञतां च स्वीयगुणग्राहित्वं वैदग्ध्यं च शापयित्वा, तथा अनिशं सर्वदा परिचर्यया चरणादिसंवाहनतालवृन्तचालनादिरूपया सेवया निजां भक्ततां भक्तियुक्ततां च ज्ञापयित्वा । आनिशं निशामभिव्याप्य मर्यादीकृत्य । अहोरात्रमित्यर्थ इति वा ॥
[२]स्वाङ्गमर्पयितुमेत्य वामतां रोषितं प्रियमथानुनीय सा। |