पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
नैषधीयचरिते

 मुहूर्तेति ॥ मम सखायो मित्राणि पक्षिणः मुहूर्तमानं क्षणमात्रमीदृश्येव संसारस्थितिरिति भवस्य निन्दया निवृत्तिं दुःखविस्मरणमेष्यन्ति यास्यन्ति । किंभूताः-स्रवन्ति गलन्त्यश्रूणि येषाम् । तथा-दयासखा दयालवः । हे मातः, परं केवलं सुतशोकः पुत्रशोक एव सागरः समुद्रस्त्वयैव दुरुत्तरो दुःखेनापि तरितुमशक्यः । भविष्यतीति शेषः। 'मम मित्राणां क्षणमात्रं दुःखं, तव तु यावज्जीवमिति भावः । मुहूर्तमात्रमिति 'कालाध्वनोः-' इति द्वितीया । दयासखा इति 'राजाहःसखिभ्यष्टच्' । दुरुत्तर इति खल् । 'न लोका-' इति निषेधात्त्वयेति तृतीया ॥

मदर्थसंदेशमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते ।
विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृग्भविता तव क्षण:१३७

 मदर्थेति ॥ हे प्रिये, स तव क्षणः समयः कीदृक्कीदृशो भविता भविष्यति । नितरामनिर्वाच्यो भविष्यतीति भावः । किंभूतायास्तव-त्वया इति पूर्वोक्तप्रकारेण वचसि मत्सहचरान्प्रत्युदिते उक्ते सति । पृष्टे सतीत्यर्थः । अथानन्तरमेव पक्षिणो मत्सहचरान्रुदतो रोदनं कुर्वतो विलोकयन्त्याः पश्यन्त्याः । इतीति किम्-हे सहचराः, मह्यमिमे मदर्थे ये संदेशमृणाले संदेशश्च मृणालं च तयोर्विषये मन्थरोऽलसः। तत्र गत्वा त्वमिदं मत्प्रियां ब्रूहि इति संदेश आज्ञा, मृणालं च मद्भक्ष्यम् । एवंभूतो मत्प्रियः कियद्दूरे पथि वर्तत इति । कियद्दूरं यस्येति प्रियविशेषणं वा । पूर्वत्रान्यपदार्थः पन्थाः। मदर्थं मृणालान्यानेयानीति संदेशमृणालानि तैर्मन्थरो, भारबाहुल्यान्मन्दर इति वा । मदर्थ इति 'अर्थेन नित्यसमासः-' इति समासः ॥

कथं विधातर्मयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः ।
वियोक्ष्यते वल्लभयेति निर्गता लिपिर्ललाटंतपनिष्ठुराक्षरा ॥१३८॥

 कथमिति ॥ हे विधातः ब्रह्मन्, मयि विषये तव पाणिपङ्कजात्करकमलादित्येवंभूता लिपिः कथं निर्गता। किंभूतात्-प्रियायाः शैत्यं शीतत्वं, मृदुत्वं च तयोः शिल्पिनो निर्मातुः । इतीति किम्-त्वं वल्लभया प्रियया सह वियोक्ष्यसे वियोगं प्राप्स्यसीति । (किंभूता-) ललाटं तापयन्ति ललाटंतपानि निष्ठुराणि कठिनान्यक्षराणि यस्याः। लिप्यामेतदयुक्तमित्यर्थः । 'कारणगुणाः कार्यगुणानारभन्ते' इति न्यायात् । करपङ्कजं शीतलं मृदु च तस्य दाहकठिनयोरुत्पादकत्वं विरुद्धमिति भावः । ललाटंतपेत्यत्र 'असूर्यललाटयो:-' इति खश्, 'अरुर्द्विषजन्तस्य-' इति मुम् ॥

अयि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता।
मखानि लोलाक्षि दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि ॥


१ 'अत्रानुप्रासरूपकालंकारौ' इति साहित्यविद्याधरी । २ 'अत्र भावोदयालंकारः' इति साहित्यविद्याधरी। ३ 'अत्र विषमं रूपकं चालंकारः। तथा च रुद्रटः-'कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः । तद्वत्क्रिययोरथवा संजायतेति तद्विषमम् ॥' अत्र निष्ठुरत्वतापत्वमृदुत्वशैत्यगुणविरोधः' इति

साहित्यविद्याधरी।