पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१२
नैषधीयचरिते

चार्ह योग्यं तदपि विधाय क्रीडति स्म । यतः--पतिव्रता । नहि पतिव्रतानां किंचिदसाध्यमस्ति । चोऽवधारणे । अखिलं भाषावेषादि तस्यैवार्हं यथा तथा रेमे इति वा ॥

न स्थली न जलधिर्न काननं नाद्रिभूर्न विषयो न विष्टपम् ।
क्रीडिता न सह यत्र तेन सा सा विधैव न यया यया न वा ॥ ८४ ॥

 नेति ॥ सा तेन सह यत्र न क्रीडिता संभोगं नाकृत सा स्थली अकृत्रिमा भूरेव नास्ति । तथा-जलधिः कूपमारभ्य समुद्रपर्यन्तं स जलाशयो नास्ति । तथा-काननं तद्दुर्गमं वनं नास्ति । साऽद्रिभूर्नास्ति । स विषयः कर्णाटादिरूपो देशविशेष एव सुखहेतुः स्रच्कन्दनादिर्वा नास्ति । तद्विष्टपं भूर्भुवःस्वराद्येव नास्ति । यस्यां यस्मिन्वा तेन सह न चिक्रीडेति प्रत्येकं योज्यम् । वा समुच्चये । तथा-सा विधैव पुरुषायितादिरूपः कामशास्त्रोक्तः प्रकार एव नास्ति । यया यया येन येन प्रकारेण सा न क्रीडिता। जलान्तः संभोगनिषेधे पूर्वश्लोके नानारूपधारणोक्तेर्मत्स्यादिरूपत्वान्निषेधो न, मनुष्याधिकारत्वाच्छास्त्रस्येति ज्ञेयम् । क्रीडिता 'गत्यर्थाकर्मक-' इति कर्तरि निष्टा॥

नम्रयांशुकविकर्षिणि प्रिये वक्रवातहतदीप्तदीपया।
भर्तृमौलिमणिदीपितास्तया विस्मयेन ककुभो निभालिताः॥८५॥

 नम्रयेति ॥ प्रियेंऽशुकविकर्षिणि सति लज्जावशाद्गुप्तावयवानवलोकनार्थं नम्रया, अत एव वक्रवातेन हतो निर्वापितो दीप्तः प्रकाशमानो दीपो यया तया भर्तृमौलौ मणयो मुकुटरत्नानि तैर्दीपिताः प्रकाशिताः ककुभो दिशः विस्मयेन निर्वापितेऽपि दीपे कथमयं प्रकाश इत्याश्चर्येण निभालिता विलोकिताः । रत्नप्रकाशाज्ञानाद्विस्मयः, रत्नप्रभातिशयाद्वा॥

कान्तमूर्ध्नि दधती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।
रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनोर्मनोभुवः ॥८६॥

 कान्तेति ॥ तस्य पूर्वोक्तस्य दिक्षु दीप्तस्य मुकुटमणेः पिधित्सया आच्छादितुमिच्छया श्रवणपूरं कर्णभूषणीकृतं नीलोत्पलं कान्तमूर्ध्नि दधती स्थापयन्ती सा रन्तुं स्ववल्लभस्येव तनुः शरीरं यस्य नलदेहव्याजं धारयन्ती मनोभुवः पुर आदी सुरतारम्भेऽर्चनमिवाचरत्पूजामिव चकार । पुष्पपूजा शिरसि कर्तुमुचिता । रतारम्भे च स्मरः समुचिता देवतेति तत्पूजा युक्ता । प्रकाशाभावार्थं कर्णोत्पलेन मुकुटमणिं पिदधाविति भावः ॥

तं पिधाय मुदिताथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः ।
चित्तमाप कुतुकाद्भुतत्रपातङ्कसंकटनिवेशितस्मरम् ॥ ८७ ॥

 तमिति ॥ सा तं नलीयं मुकुटमणिं पिधाय कर्णोत्पलेनाच्छाद्य मुदिता सती अथ पश्चात्स्वयोर्निजयोरुभयत्र द्वयोर्वामदक्षिणयोः पार्श्वयोर्दीपं वीक्ष्यार्थाद्द्वौ दीपौ दृष्ट्वा स्व-