पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः। ८१५ ईक्षितेति ॥ चुम्बनरसात्कान्तदन्तैः परिपीडिताधरा दष्टाधरा, अत एव-पाणिवू- ननं वितन्वती इयं तत्क्षणे सुरतसमये उदितमुदं संजातहर्ष मनोभुवं नर्तितुमुपदि. शतीव नृत्यं शिक्षयन्तीव प्रियेणेक्षिता । यापि नृत्यं शिक्षयति सापि हस्तकाभिनयव- शात्करकम्पनं करोति । उपदिशती 'आच्छीनद्योः' इति पाक्षिकत्वान्नुमभावः ॥ सा शशाक परिरम्भदायिनी गाहितुं बृहदुरः प्रियस्य न । चक्षमे च स न भङ्गुरभ्रवस्तुङ्गपीनकुचदूरतां गतम् ॥ ९५ ॥ सेति ॥ परिरम्भदायिनी सा प्रियस्य बृहदुरो गाहितुं सामस्त्येन स्प्रष्टुं न च श- शाक । यतो बृहदतिविशालम् । सा च कृशाङ्गीत्यर्थः । स च नलोपि भगुरे भ्रुवौ य. स्यास्तस्या वक्षः सर्वमपि स्प्रष्टुं न चक्षमे । यतः-तुङ्गाभ्यां पीनाभ्यां कुचाभ्यां दूरतां व्यवहिततां गतं प्राप्तम् । कुचमात्रमेवालिङ्गितम्, नतु सर्व वक्ष इत्यर्थः । उभावपि संपूर्णालिङ्गनाप्राप्तेर्नितरां सस्पृहत्वादुजृम्भितकामौ जाताविति भावः ॥ बाहुवल्लिपरिरम्भमण्डली या परस्परमपीडयत्तयोः । आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः ॥ ९६ ॥ बाह्विति ॥ तयोर्बाहव एव दैर्ध्य॑कार्याभ्यां वल्लयो लतातुल्यास्तासां परिरम्भ आ. लिङ्गनविषये या मण्डली वृत्ताकाराङ्कपाली परस्परमपीडयद्गाढमालिङ्गत् । स हृद्- येशस्य कामस्य हेमनलिनीमृणालाज्जातस्तेन निर्मितः पाश एव आस्त बभूव । अति- गौरत्वान्मार्दवत्वाच्च बाहूनां सौवर्णमृणालतुल्यत्वम् । पाशबद्धो यथा वश्यो भवति, तथाऽङ्कपालीपाशेन दृढं बद्धौ कामवशं याताविति भावः ॥ वल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचाववापतुः । केलतीमदनयोरुपाश्रये तत्र वृतमिलितोपधानताम् ॥ ९७ ॥ वल्लभेनेति ॥ प्रेयसीहृदि वल्लभेन परिरम्भपीडितौ गाढालिङ्गनेन वामनीकृतौ कुचौ केलतीमदनयो रतिकामयोरुपाश्रये विश्रान्तिस्थाने तत्र वक्षसि वृत्तमिलितोपधानतां वर्तुलसंगतोच्छीर्षकभावमवापतुः । प्रभोर्हि विश्रान्तिस्थाने शय्यादौ गण्डोपधानं वृत्त- मुच्छीर्षकं भवति, रतिकामौ च प्रभू तत्र वर्तेते, अतस्तत्रैव वर्तमानौ वृत्तौ वामनी- भूतौ कुचौ द्वयोरुच्छीर्षके इव बभूवतुरित्यर्थः । इत्युत्प्रेक्षा । केलती रतिपर्यायः॥ भीमजोरुयुगलं नलार्पितैः पाणिजस्य मृदुभिः पदैर्बभौ। तत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम् ॥९॥ भीमजेति ॥ भीमजोरुयुगलं नलापितैर्मृदुभिः पाणिजस्य नखस्य पदैः स्तोकत्वङ्मा- प्रोल्लेखिभिर्नखक्षतैः कृत्वा रतिकामयोः शातकुम्भजं सौवर्ण तयोर्यशःप्रशस्तिर्लि- पिरूपा यत्र, सैव नखस्वरूपैव यशःप्रशस्तिर्यत्रैवंभूतं वा, निजजयप्रकाशकं स्तम्भयु-