पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१८
नैषधीयचरिते

चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम् ।
प्राप भर्तुममृतैः सुधांशुना सक्तहाटकघटेन मित्रताम् ॥ १०५॥

 चुम्बनायेति ॥ चुम्बनाय कलितः स्पृष्टः प्रियाकुचो येन वीरसेनसुतस्य वक्त्रमण्डलं सुधांशुना चन्द्रेण मित्रतां साम्यं प्राप । किंभूतेन चन्द्रेण-स्वैरेवामृतैरात्मानं भर्तुं पूरयितुं सक्तः संगतो हाटकघटः सुवर्णकलशो येन । मुखं चन्द्रसमममृतभरणार्थं चन्द्रसंबद्धस्वर्णघटसमो भैमीकुचः । मुखेन्दुना स्वीयममृतं कुचकलशे निक्षिप्तम् , नतु तत्रत्यं गृहीतमिति अनौचिती नाशङ्कनीया । मुखचुम्बनादमृतांशुयोगादिव भैमीकुचः शान्ततापो जातसुखश्चाभूदिति भावः । 'मुखनेत्रस्तनबाहुमूलकपोलौष्ठद्वयवराङ्गन्यष्टौ चुम्बनस्थानानि, रागतः सर्वाण्यपि च' इति वात्स्यायनः । नयनगल्लकपोलदन्तवासोमुखान्तस्तनयुगलललाटं वा चुम्बनस्थानम् । स्तने चूचुकं परिहत्येति विशेषः । मित्रशब्दस्य तुल्यार्थत्वात्सुधांशुनेति 'तुल्यार्थैः-' इति तृती[१]या ॥

वीक्ष्य वीक्ष्य पुनरैक्षि सा मुदा पर्यरम्भि परिरभ्य चासकृत् ।
चुम्बिता पुनरचुम्बि चादरातृप्तिरापि न कथंचनापि च॥१०६॥

 वीक्ष्येति ॥ अमुना सा वीक्ष्य वीक्ष्य पुनरैक्षि । तथा-असकृद्वारंवारं परिरभ्य च पुनः पर्यरम्भि पुनरालिङ्गि । तथा -आदराद्वारं वारं चुम्बितापि पुनरचुम्बि च । तथापि कथंचनापि केनापि प्रकारेणानेन तृप्तिकारणसद्भावेपि तृप्तिर्नापि न प्राप्ता ॥

छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः ।
न व्यतर्कि सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि ॥१०७॥

 छिन्नमिति ॥ सुदृशा निरीक्षणे नितरां चतुरयाऽपि मुग्धया सुन्दर्या, अथ च-बालया भैम्या सुरतलास्यकेलिभिः सुरतसंबन्धिभिर्नत्तविलासैः करधूननाद्यङ्गविक्षेपविलासविशेषैः कृत्वा हृदि छिन्नं त्रुटितगुणमप्यतनु आनाभिलम्बित्वाद्विशालं हार- मण्डलं मुक्ताहारदाम चिरादपि भूयसापि कालेन न व्यतर्कि । यतः-स्वेदबिन्दुकितं संजातस्वेदबिन्दुकं वक्षो यस्यास्तया । सुरतायाससंजाँतस्वेदबिन्दुमण्डलस्य हारसादृश्यान्मौग्ध्याच्च त्रुटितोऽपि हारो नाबोधीत्यर्थः । स्वार्थिककप्रत्ययान्तात्स्वेदबिन्दुकशब्दात्तारकादित्वादि[२]तच् ॥

यत्तदीयहृदि हारमौक्तिकैरासि तत्र गुण एव कारणम् ।
अन्यथा कथममुत्र तैरशाकि न तदा गुणच्युतैः ॥१०८॥


  1. 'अमृतांशुरिवेत्युत्प्रेक्षयाऽमृतकरत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः' इति जीवातुः
  2. 'भ्रान्तिमदलंकारः' इति जीवातुः।