पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२०
नैषधीयचरिते

भूषणैरतुषदाश्रितैः प्रियां प्रागथ व्यषददेष भावयन् ।
तैरभावि कियदङ्गदर्शने यत्पिधानमयविघ्नकारिभिः ॥ ११२ ॥

 भूषणैरिति । एष नलः प्रियामाश्रितैः स्वशरीरं मण्डयद्भिस्ताटङ्कादिभिभूषणैर्दृष्टैः प्रागतुषत्पूर्वं संतोषमगात् । अथ तोषानन्तरं भावयन्विचारयन्व्यषदद्विषण्णोऽभूत् । यद्यस्मात्तैर्भूषणैरस्याः कियतोऽलंकृतस्याल्पस्याङ्गस्य दर्शने विषये पिधानमयानामाच्छादनरूपाणां दर्शनान्तरायाणां कारिभिस्तद्धेतुभूतैरभावि जातम् । अनलंकृतं चेत्तर्हि सर्वं दर्शनगोचरोऽभविष्यत् , नत्वेवम् , तस्माद्यषददित्यर्थः। भैमीसौन्दर्यं तस्यां नलानुरागातिशयश्च सूचितः । रतसमये भूषणमोचनस्यैव युक्तत्वाद्भूषणसद्भाववर्णनं यद्यप्यनुचितम् , तथापि यावद्भूषणानि मोचयति, तावदपि विलम्बासहिष्णुतया हठसुरतसूचनाद्भूषणवर्णनौचिती न दोषायेति, तदाप्यत्यन्तापरिहार्यभूषणाभिप्रायेण वेति ज्ञेयम् । 'बह्वमन्यत दशा न चेतसां भूषणानि स विदर्भसुभ्रुवः' इति वा पाठः सुगमः। अतुषत्पुषादित्वादङ्॥

योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म बोधतः ।
तौ निमेषमपि वीक्षणे मिथो वत्सरव्यवधिमध्यगच्छताम॥११३॥

 योजनानीति ॥ तौ रोमहर्षजं सात्विकभावोत्थरोमाञ्चाज्जातमत्यल्पमप्यन्तरं परिरम्भण आलिङ्गने विषये बहूनि योजनानि बोधतः स्म अजान(नी)ताम् । तथापि मिथो वीक्षणे प्रारब्धेऽन्योन्यविलोकनेऽत्यल्पं निमेषमक्षिपक्ष्मसंकोचसमयमपि वत्सरेण वर्षेण व्यवधिं व्यवधानं बहुवर्षदर्शनविच्छेदकालमध्यगच्छतामज्ञासिष्ट्राम् । अल्पीयसाऽपि देशकालव्यवधानेन प्रेमभरादन्योन्यविच्छेदस्ताभ्याममानीत्यर्थः । बोधतः 'बुध अवगमने' भौवादिकः । स्मयोगे लट् ॥

वीक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम् ।
कोयमित्युदितसंभ्रमीकृतां स्वानुबिम्बमददर्शतैष ताम् ॥ ११४ ॥

 वीक्ष्येति ॥ एष नलो मृदुं बालत्वात्सुरतभरासहां लघुद्रवां पद्मिनीम् , अत एव- स्वस्मात्पूर्वमेव बिन्दुपतनरयरूपं भावमधिगन्तुं प्राप्तुं नेत्रनिमीलनगाढालिङ्गनादिचिह्नेनोत्सुकां सत्वरां वीक्ष्य ज्ञात्वा तद्बिन्दुस्तम्भनार्थं कोयमपूर्वः पुरुष इति प्रश्नेन पूर्वमसंजातभयामपि नलरूपधारिणान्येनाहं भुक्तेति युद्ध्या सुरतसमयसमागतजनान्तरदर्शनाद्वा उदितसंभ्रमीकृतां समुत्पादितभयां विमनस्कतया प्रतिबद्धभावोदयाम् , अनन्तरं कः कुत्र तिष्ठतीतिकृतप्रश्नां तां भैमीमच्छमणिकुट्टिमे निर्मले मणिबद्धभित्तिभागे स्वानुबिम्बं स्वप्रतिबिम्बमददर्शत दर्शयामास नायमपूर्वः कश्चित् , किंतु मदीयमेवेदं प्रतिबिम्बम्, तत्र ममान्य इति भ्रान्तिर्जातेति स्वप्रतिविम्ब तामदर्शयदित्यर्थः । अन्यतरस्य पूर्वं बिन्दुपतने विषमरतत्वाद्वैरस्यं स्यादिति बिन्दुस्तम्भार्थम् 'अन्यचित्ततया संभ्रमजननेन च भावबन्धं कुर्यात्' इति कामशास्त्रात्तस्या विन्दुपातप्रतिबन्धमकरो-