पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
प्रथमः सर्गः।

 अयीति ॥ अयि प्रिये, लोलाक्षि स्वभावतः शोकवशाच्चञ्चलनेत्रे, त्वमद्य दिशां दशापि मुखान्यसंशयं निश्चितमेव शून्यानि रिक्तानि विलोकयिष्यसि ईक्षयिष्यसि । बत खेदे । मां विना सर्वं शून्यमिव द्रक्ष्यसीति भावः। किंभूता-स्वयूथ्यैः स्ववर्ग्यैर्हंसैरशनिक्षतोपमं वज्रप्रहारसदृशमिमं मरणरूपं मम वृत्तान्तं वार्तामुदितोक्ता । बञोऽर्थग्रहणाद्वदिर्द्विकर्मा । वृत्तान्तम् । मुख्यकर्मणि द्वितीया ॥

ममैव शोकेन विदीर्णवक्षसा वया विचित्राङ्गि विपद्यते यदि ।
तदास्मि दैवेन हतोऽपि हा हतः स्फुटं यतस्ते शिशवः परासवः ॥

 ममैवेति ॥ हे विचित्राङ्गि सुन्दरगात्रि, ममैव शोकेन दुःखेन विदीर्णवक्षसा स्फुटितहृदयया यदि विपद्यते म्रियते, तदा तर्हि हा खेदे अहं देवेन हतोऽपि पुनर्हतोऽस्मि । यतः-स्फुटं निश्चितं ते इत्यभिनयेनाल्पीयांसः शिशवो वालकाः परासवो मृता भवेयुः। मां विना त्वत्तोऽपि तेषां जीवनं संभाव्यते, तव मरणे सति तेऽपि मरिष्यन्तीति पिष्टपेषणमेव दैवेन कृतमिति भावः । 'एकशोकेन' इति पाठः॥

तवापि हाहा विरहात्क्षुधाकुलाः कुलायकूलेषु विलुट्य तेषु ते ।
चिरेण लब्धा बहुभिर्मनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम॥१४॥

.

 तवेति ॥ हाहा इति खेदे । हे प्रिये, मम ते बालका बहुभिर्मनोरथैश्चिरेण बहुकालेन लब्धाः सन्तः क्षणेन गताः। मृतप्राया इत्यर्थः । किंभूताः क्षुधाकुलाः। तथा अतिबाल्यादस्फुटितेक्षणा अप्रकाशितनेत्राः। किंकृत्वा--तवापि । अपिशब्दान्ममापि विरहात्तेषु प्रसिद्धेषु कुलायकूलेषु स्वकृतनीडतटेषु विलुठ्य लुठित्वा। पूर्वश्लोकार्थानुवादः॥ इति प्रियां प्रत्युक्त्वा सुतान्प्रत्याह-

सुताः कमाहूय चिराय चुंकृतैर्विधाय कम्प्राणि मुखानि कं प्रति ।
कथासु शिष्यध्वमिति प्रमील्य सः स्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ॥

 सुता इति ॥ हे सुताः पुत्राः, जननीं मां च विना चुंकृतैः शिशुपक्षिसूक्ष्मशब्दविशेषैश्चिराय कमाहूयाकार्य भक्ष्यं याचयिष्यथ । कं प्रति कम्प्राणि चलानि मुखानि विधाय गोष्ठीः कथयिष्यथ । अपि तु न कमपि प्रति । उभयोर्मृतत्वात् । शिशुपक्षिणामियं जातिः। एवं सति परं पूर्वकथासु शिष्यध्वं कथाशेषी भविष्यथेत्युक्त्वा स हंसः प्रमील्य मूर्छां प्राप्य स्रुतस्य कारुण्याद्गलितस्य नृपाश्रुणो नृपनेत्रवाष्पस्य सेकात्सेचनाद्बुबुधे। भक्ष्ययाचनं गोष्ठीकरणं च कवेरुक्तिः, न तु हंसस्य । तस्य वचः आहूय विधायेत्येतदन्तम् । शोकवशात्खण्डोक्तिः करुणारसपोषिका । गोष्ठीषु विषये चतुरा भविष्यथेति पितरं मातरं च विना युष्मान्वक्तुमपि कः शिक्षयेदिति वाक्यशेषो वा । शि-

१ 'अत्रानुप्रासोपमालंकारौं' इति साहित्यविद्याधरी। २ 'अत्र काव्यलिङ्गमलंकारः' इति सा- हित्यविद्याधरी। ३ 'अत्र विरोधाभासोऽलंकारः' इति साहित्यविद्याधरी। +