पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२३
अष्टादशः सर्गः।

तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।
तद्विधा हि भवदैवतं प्रिया वेधसोपि विदधाति चापलम् ॥१२०॥

 तदिति ॥ इदानींतनस्तस्याः क्लमः सुरतजः श्रमः नायकं सैन्यस्वामिनं राजानमपि तं क्षणमात्रं तालवृन्तचलनायादिदीक्षतोपदिदेश । सुरतश्रान्तां तां दृष्ट्वा व्यजनवीजनेन श्रमापनयनं चकारेत्यर्थः । हि यतो-भवस्य संसारस्य कामसुखसर्वस्वस्य दैवतमिष्टदेवता तद्विधा भैमीसदृशी अतिसुन्दरी प्रियसौभाग्यवती प्रिया वेधसो ब्रह्मणोपि स्वविषये चापलमनुरागतरलतां विदधाति करोति, किं पुनर्मनुष्यस्य नलस्येत्यर्थः । पुनरपि सानुरागो जात इति भावः । 'व्यजनं तालवृन्तकम्' इत्यमरः अदिदीक्षत नियमार्थाहीक्षेर्हेतुमण्णिच्, चङ् ॥

स्वेदबिन्दुकितनासिकाशिखं तन्मुखं सुखयति स्म नैषधम् ।
प्रोषिताधरशयालुयावकं सामिलुप्तपुलकं कपोलयोः ॥ १२१ ॥

 स्वेदेति ॥ तस्या मुखं नैषधं सुखयति स्म । किंभूतम्-स्वेदबिन्दुकाः संजाता यस्यास्तादृशी नासिकाशिखा नासाग्रं यस्य । तथा-प्रोषितो गतोऽधरशयालुरोष्ठस्थितो यावको यस्य । तथा-परिचुम्बनवशात्कपोलयोः साम्यर्धं लुप्ताः पुलका रोमाञ्चा यस्य एवंभूतं दृष्ट्वा स सुखी जातः, संजातकामश्च जात इत्यर्थः । अत्र पूर्वोत्तरार्धे व्यत्यस्ते पठनीये, अन्यथा समाप्तपुनरात्तदोषापातः। सुखयति मतुबन्तात् 'तत्करोति-' इति णिचि ‘णाविष्टवत्-' इति मतुब्लोपः॥

ह्रीणमेव पृथु सस्मरं कियात्ल्लान्तमेव बहु निर्वृतं मनाक् ।
कान्तचेतसि तदीयमाननं ततदालभत लक्षमादरात् ॥ १२२ ॥

 ह्रीणमिति । तदतिसुन्दरं तदीयमाननं तदा सुरतान्तसमये कान्तचेतसि विषय आदरातिशयाल्लक्षं लक्षसंख्यं द्रव्यमलभत । मूल्यरहितेऽत्युत्कृष्टे वस्तुनि 'एतल्लक्षं लभते' इति लोकोक्त्या परमोत्कर्षस्याभिव्यञ्जनात्परमत्युत्कर्षं प्रापेत्यर्थः । किंभूतम्-सुरतसुखानुभववेगसंजातस्वीयस्मरचापलस्मरणात्पुरुषायितस्सरणाद्वा बहुतरं ह्रीणं लजितमेव । तथा-पुनः सुरताभिलाषधारणात्कियदीषत्सस्मरमुद्दीप्तकामम् । तथा-सौकुमार्यातिशयायासबाहुल्याद्बहु सुतरां क्लान्तं म्लानमेव । तथा-प्रलयाख्यया कामावस्थया साध्यसाधनभेदावगमराहित्यादेकीभावात्परब्रह्मानन्दानुभवादिव महासुखानुभवविषयसुखापलापान्मनाङ्निर्वृतमल्पं सुखितम्। विस्मृतानुभूतसुखमितियावत् । 'रतान्तसमये योषिन्मुखमत्यादरकारि भवति' इति कामशास्त्रम् । तदा तादृक्तदाननं दृष्ट्वा पुनः समदनोऽभूदिति भावः। अथ च-लक्षं विषयतामलभतेत्यर्थः ॥

खेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथायथा ।
नैषधस्य दृगपात्तथातथा चित्रमापदपतृष्णतां न सा ॥ १२३॥