पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२४
नैषधीयचरित

 स्वेदेति ॥ नैषधस्य दृक्स्वेदवारिणा सुरतश्रमजलेन पूरिपूर्णं प्रियारोमकूपनिवहं यथा यथा यावदपात्सादरं व्यलोकयत्, सा नलदृक्तथातथा तावत्तावदपतृष्णतां तृप्तिं नापदिति चित्रम् । पुनः पुनरवलोकने हि तृप्तिर्भवति, अत्र तु न जातेत्याश्चर्यमित्यर्थः । अथ च--पिपासोरञ्जलिजलेनापि पिपासा शाम्यति, अस्यास्त्वाकण्ठवारिपूरितकूपसंघस्य पुनः पुनः पानेऽपि पिपासा न शान्तेति चित्रमित्यर्थः । एवंभूतभैमीरोमकूपदर्शनमात्रेण पुनः सकामोऽभूदिति भावः॥

वीतमाल्यकचहस्तसंयमव्यस्तहस्तयुगया स्फुटीकृतम् ।
बाहुमूलमनया तदुज्ज्वलं वीक्ष्य सौख्यजलधौ ममज्ज सः॥१२४॥

 वीतेति ॥ स सुरतसंमर्दाद्वीतमाल्याश्युतकुसुमाः कचहस्तास्तेषां संयमाय ग्रन्थिबन्धनाय व्यस्तमूर्ध्वव्यापारितं हस्तयुगं यया तया भैम्या स्फुटीकृतं तदतिरमणीयं कामवसतिस्थानमुज्ज्वलमतिगौरं बाहुमूलं वीक्ष्य सौख्यजलधौ ममज्ज । निरवधि सुखमन्वभूदित्यर्थः । वान्तेति वा पाठः । कचहस्त इति हस्तशब्दः प्रशंसावाची । सुखमेव सौख्यं चतुर्वर्णादित्वात्म्यञ् ॥

वीक्ष्य पत्युरधरं कृशोदरी बन्धुजीवमिव भृङ्गसंगतम् ।
मञ्जुलं नयनकज्जलैर्निजैः संवरीतुमशकत्सितं न सा ॥१२५ ॥

 वीक्ष्येति ॥ सा कृशोदरी नेत्रचुम्बनवशात्संलग्नैनिजैर्नयनकज्जलैभिन्नवर्णतया मञ्जलं शोभमानं पत्युरधरं भृङ्गेण भ्रमरेण संगतं मिलितं पीयमानमकरन्दं बन्धुजीवपुष्पमिव वीक्ष्य समुत्पद्यमानं स्मितमीषद्धास्यं संवरीतुं गोपायितुमुत्पद्यमानमेव निरोद्धं वा नाशकत्समर्था नाभूत् । उत्तमस्त्रीत्वात्सलज्जत्वात्प्राणेशस्य सविधे स्मितं कर्तुमयुक्तं यद्यपि, तथापि स्वीयसंभोगसौभाग्यवशादुत्पन्नस्य स्मितस्य संवरीतुमशक्यत्वात्सपत्नीदर्शने च सलज्जत्वेपि प्रागल्भ्यागमनशङ्कया सिष्मिय इति ॥

तां विलोक्य विमुखश्रितस्मितां पृच्छतो हसितहेतुमीशितुः ।
ह्रीमती व्यतरदुत्तरं वधूः पाणिपङ्करुहि दर्पणार्पणाम् ॥ १२६ ॥

 तामिति ॥ वधूर्भैमी विमुखं तिर्यमुखं यथा तथा पराङ्मुखीभूय श्रितम्सिता कृतेषद्धास्या विमुखी चासौ श्रितस्मिता च तादृशीं बालां विलोक्य हसितहेतुं पृच्छत ईशितुर्नलस्य पाणिरेव पङ्करुट् कमलं तस्मिन्करकमले दर्पणस्यार्पणामेवोत्तरं व्यतरद्ददौ स्मितहेतुमाचष्ट । यतो-ह्रीमती । स्वनेत्रचुम्बनवशात्तवोष्ठे नेत्रकज्जलं लग्नमिति लज्जावशात्साक्षादुत्तरं दातुमशक्ता कज्जलाङ्कितं स्वाधरं पश्येति भावेन दर्पणार्पणामेवोत्तरं ददावित्यर्थः॥

लाक्षयामचरणस्य चुम्बनाच्चारुभालमवलाक्य तन्मुखम् ।
सा हिया नतनताननाऽस्मरच्छेषरागमुदितं पतिं निशः ॥१२७॥