स्वापराधमलुपत्पयोधरे मात्करः सुरधनुष्करस्तव । |
स्वापराधमिति ॥ हे भैमि, मत्करस्तव पयोधरे स्तने सुरधनुष्कर इन्द्रचापाख्यनखक्षतविशेषकारी सन् नखक्षतपीडाकरणजं स्वापराधं व्यजनस्य चालना तस्याः सकाशाद्भवतीति भूस्तया व्यजनवीजनसमुद्भूतया सेवयाऽलुपत् । वाऽथवा एतावस्याऽपि सेवया यदि न तुष्यति तर्हि भूय एव पुनरप्ययं करस्तव चरणौ करोतु संवाहयतु । चरणसंवाहने ह्यपराधमार्जनं भवति, तस्मात्तदयं करोत्वित्यर्थः । अथ च--चरणौ संभोगार्थमूर्ध्वीकरोत्वित्यर्थोबसेयः । अथ च-नानावर्णमुद्रिकायुक्तत्वात्त्वस्कुचे सुरधनुष्करः । तथा चापराधो नास्त्येव । अथ च-मेघे सुरधनुर्युक्तमेवेति पयोधरे तत्कारिणां न कोप्यपराधः । यद्यपि भवेत्, तथापि व्यजनसेवयाऽवलोपितः । चरणसंवाहनमपि करोत्वित्यर्थः। 'भूय एषः' इति पाठे-एष मत्करः । अलुपत् ऌदित्त्वादङ् । धनुष्करः 'दिवाविभा-' इति टः, 'इसुसोः सामर्थ्ये' इति पक्षे विसर्जनीयस्य षः। करोतीति करः पचाद्यच् । सुरधनुषः कर इति षष्ठीसमासः। चालना ण्यन्ताझुच् । मित्त्वस्य पाक्षिकत्वाद्बुद्धिः॥
आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः । |
आननस्येति ॥ हे सुदति, ममाननस्य चेद्यद्यनौचिती । यतो-निर्दयं यथा तथा दशनदंशदायिनो दन्तक्षतदानशीलस्य । तस्मात्तस्य यद्यपराधिता । ततर्हि अपराधकारिणोऽस्य मन्मुखस्याधरं विदश्यातितरां खण्डयित्वा त्वया किमिति तद्दन्तदशनरूपं वैरं न शोध्यते त्वं वद कथय, अपित्वपराधिनोस्यावयवमोष्टं दन्तैः खण्डयित्वा वैरनिर्यातनं कुरु । तथा च समः समाधिरित्यर्थः ॥
दीपलोपमफलं व्यधत्त यस्त्वत्पटाहृतिषु मच्छिखामणिः । |
दीपेति ॥ हे भैमि, यो मच्छिखामणिस्त्वत्पटाहृतिषु त्वदीयवसनकर्षणेषु सतीषु लज्जावशान्मुखवाय्वादिना त्वया कृतं दीपलोपं स्वकिरणैरेव तिमिरनिराकरणादफलं व्यर्थं व्यधत्त । तस्य मणेरागस्यपराधे परं केवलं करादिवत्समर्थना परिहारो नोअस्ति, तस्मादुपायान्तराभावात्सोयं मौलिमणिस्तव पदयोः पातुको वन्दारुरस्तु । उपायान्तराभावे हि नमस्कारेणाप्यपराधमार्जनं क्रियते, तस्माद्यमपि नमस्कारं करोवित्यर्थः॥
इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरश्चकार सः। |