पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२८
नैषधीयचरिते

 इत्थमिति ॥ स इत्थमुक्तप्रकारेण कोमलां सामयुक्तामुक्तिं वाचमुपहृत्योपहारीकृत्य प्रणामकरणवशात्तल्पचुम्बिनः शय्यास्पर्शिनश्चिकुराः केशा यस्य स आत्ममौलिमणिकान्तिर्निजशिखामणिद्युतिस्तद्रूपा भङ्गिनी नदी तां तत्पदे भैमीचरणौ तद्रूपे अरुणसरोजे तत्सङ्गिनीं संबद्धां चकार । प्रणनामेत्यर्थः । नद्याश्च रक्तोत्पलसंबन्धो युक्त एव । तल्पचुम्बीत्यनेन शय्यायामेव प्रणामः सूचितः । भङ्गास्तरङ्गाः सन्त्यस्यां सेति विग्रहः॥

तत्पदाखिलनखानुबिम्बनैः स्वैः समेत्य समतामियाय सः ।
रुद्रभूमविजिगीषया रतिस्वामिनोपदशमूर्तिताभृता ॥ १३८ ॥

 तदिति ॥ कृतप्रणामः स नलः स्वैर्निजैस्तस्याः पदयोरखिलेषु दशस्वपि नखेषु जातैरनुबिम्बनैः प्रतिबिम्बैः समेत्य मिलित्वा रुद्रस्य भूमा बहुत्वमेकादशत्वं तस्यापि स्पर्धावशाद्विजिगीषया जेतुमिच्छयोपदशमूर्तितां धारयता रतिस्वामिना कामेन समतां साम्यमियाय मदीयः शत्रुर्यद्येकादशत्वं धारयति तर्हि मयापि तावत्संख्याकेन भवितुं युक्तमिति । एकादशत्वं यदि कामो धारयेत् , तर्हि भैमीदशनखसंजातस्वप्रतिबिम्ब संबन्धादेकादशमूर्तिधारी नलस्तेनोपमीयेतेत्यभूतोपमा । रुद्रभीतीति पाठे-एकादशभ्यो रुद्रेभ्यो भीतेर्विजिगीषया तदपाकरणाद्धेतोर्यद्येकादशमूर्तितां मदनो धारयेत्तर्हि स्वप्रतिविम्बयोगादेकादशमूर्तिस्तेनोपमीयेतेत्यर्थः । प्रणामवशात्तन्नखेषु प्रतिबिम्बित इति भावः। दशानां समीपे उपदशाः संख्ययाऽव्यया-' इति समासः 'बहुव्रीही संख्येये' इति डच् । उपदशा मूर्तयो यस्येति समासः॥

आख्यतैष कुरु कोपलोपनं पश्य नश्यति कृशा मधोर्निशा।
एतमेव तु निशान्तरे वरं रोषशेषमनुरोत्स्यसि क्षणम् ॥ १३९ ॥

 आख्यतेति ॥ एष तामित्याख्यतावोचत् । इति किम्-हे भैमि, त्वं कोपलोपनं कुरु । मधोर्वसन्तस्य कृशा दिनापेक्षया स्वभावत एवाल्पपरिमाणा, अथ च-प्रतिक्षणमपचीयमाना, निशा नश्यतीति पश्य । कोपापरित्यागे एवं प्रकारेणावशिष्टा रात्रिर्गमिव्यति, तसात्कोपं मुञ्च । तु पुनस्त्वमेतमेव रोषशेषं निशान्तर आगामिराज्यन्तरे दिनापेक्षयाऽधिकपरिमाणायां शिशिरर्तुरात्रौ क्षणमात्रमनुरोत्स्यसि 'कामयिष्यसे वरमेतन्मनागिष्टम् । शिष्टं कोपं तदा कुर्विदानी संभोगार्थं प्रसन्ना भव । सर्वं कोपमिदानीमेव चेत्करिष्यसि, तर्हि तदा किं करिष्यसि, तस्मादल्पं रोपं निशान्तरार्थं स्थापयेति लौकिकरीत्याऽधुना तावत्कोपं त्यजेति भैमीं प्रार्थयति स्मेत्यर्थः । आख्यत 'चक्षिङः ख्यात्रु' 'अस्यतिवक्ति-' इत्यङ्, ङित्त्वात्तङ् ॥

साथ नाथमनयत्कृतार्थतां पाणिगोपितनिजाङ्घ्रपङ्कजा ।
तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती ॥ १४० ॥

 सेति ॥ अथ प्रणामभाषणानन्तरं प्रणामं मा कार्षीरित्यादिवचनपूर्वं पाणिभ्यां गोपिते निजाङ्ध्रिपङ्कजे यया तया तस्य प्रणामेन धुतो निरस्तो मानः कोपजमौदासीन्यं य-