पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२९
अष्टादशः सर्गः।

स्यैवंभूतमाननं प्रसादात्स्मेरं सस्मितमेव वितन्वती कुर्वाणा सती सा सुदती नाथं कृतार्थतां कृतकृत्यतामनयत्प्रापयामास । तावन्मात्रेण प्रसन्नाऽभूदिति भावः ॥

तौ मिथो रतिरसायनात्पुनः संबुभुक्षुमनसौ बभूवतुः ।
चक्षमे नतु तयोर्मनोरथं दुर्जनी रजनिरल्पजीवना ॥ १४१ ॥

 ताविति ॥ तौ मिथोऽन्योन्यं रतिरसस्यायनात्प्राप्तेः परस्परानुरागविवृद्धर्हेतोः, अथ च-प्रीतिरेव रसायनं प्रशान्तसुरतेच्छायाः पुनरुज्जीवनौषधं तस्माद्धेतोः, पुनः संबुभुक्षुमनसौ सुरताभिलाषिचित्तौ च बभूवतुः । द्वितीयसुरतेच्छू जातावित्यर्थः । तु पुनः रजनिस्तयोर्मनोरथं द्वितीयसुरतवाञ्छां न चक्षमे विषेहे । यतः-दुष्टा जनिर्जन्म यस्याः । तथा-अल्पं जीवितं सत्त्वं यस्यास्तादृशी संजातप्रभातसमया । अथ च--अल्पायुषो जन्म दुष्टमेवेति । यद्वा-प्रभातस्यासन्नत्वाद्विरहसंभावनावशाद्वा दुष्टा ब्याकुला जन्यो नवोढा यस्यां सा दुर्जनी । संभोगेच्छा तु न निवृत्ता, परं प्रभातसमयस्य जातत्वात्संभोगं न चक्रतुरिति भावः । अन्योपि सुरतविषये यद्रसायनं वीर्यवृद्ध्यर्थमौषधं सेवमानः पुनः पुनः सुरतेच्छुर्भवति । अल्पचित्ताऽन्यापि दुष्टा वधूः सपत्न्यादिस्त्रीपुरुषयोः संभोग न क्षमते । जननं जनिः 'जनिघसिभ्यामिञ्(ण्)' 'जनिवध्योश्च' इति वृद्धिर्न । 'ढलोपे-' इति दीर्घः । पक्षे--समासान्तविधेरनित्यत्वात्कबभावः॥

स्वप्नुमाप्तशयनीययोस्तयोः खैरमाख्यत वचः प्रियां प्रियः ।
उत्सवैरधरदानपानजैः सान्तरायपदमन्तरान्तरा ॥ १४२ ॥

 स्वाप्तुमिति ॥ स्वप्तुमाप्तं शयनीयं शय्या याभ्यां तयोर्मध्ये प्रियः प्रियां प्रति स्वैरं रहसि स्थितत्वात्स्वच्छन्दं यथा तथा आख्यतावोचत् । किंभूतं वचः-परस्परमधरस्य दानं खण्डनं पानं च ताभ्यां जातैरुत्सवैः परमानन्दकारणैर्निमित्तैरन्तरान्तरा मध्ये मध्ये सान्तरायाणि सविघ्नानि कियन्तं कालमनुञ्चरितानि सुप्तिङङन्तानि पदानि यत्र तत् ॥

 किमुवाचेत्याह-

देवदूत्यमुपगम्य निर्दयं धर्मभीतिकृततादृशागसः ।
अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता ॥ १४३ ॥

 देवदूत्यमिति ॥ देवदूत्यमुपगम्याङ्गीकृत्य निर्दयं यथा तथा धर्माद्भीत्या चित्तशुद्ध्या दूत्याकरणे प्रतिश्रुतापरिपालनाद्धर्मो लुप्यतेति लुप्यमानाद्धर्माद्भीत्या धर्मस्यैव वा भीतिर्लोपलक्षणा तया हेतुभूतया कृतं तादृशमनिर्वाच्यं भवत्पीडनरूपमुक्तप्रकारमागोऽपराधो येन तस्यापराधिनो नलस्य मम जीवितावधि यावज्जीवं या वश्यता भवदधीनता सेयमपराधस्य मार्जना शोधयित्र्यस्तु । अद्यप्रभृति यावदहं जीवामि तावत्तव वश्यः किंकर एवेति प्रतिज्ञां तथ्यां मत्वा तमपराधं क्षमस्वेत्यवोचदितिभावः । मार्जना ण्यन्ताद्भावे युच्॥