पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३०
नैषधीयचरिते


स क्षणः सुमुखि यत्त्वदीक्षणं तच्च राज्यमुरु येन रज्यसि ।
तन्नलस्य सुधयाभिषेचनं यत्चदङ्गपरिरम्भविभ्रमः ॥ १४४ ॥

 स इति ॥ हे सुमुखि, यत्त्वदीक्षणं स एव नलस्य क्षणो महानुत्सवः शोभनवदनत्वादेवेत्यर्थः । अथ च यत्र महत्यपि काले भवदीक्षणं स महानपि कालः सुखरूपत्वात्क्षणतुल्यः। सुखेनातिवाहितुं शक्य इत्यर्थः। तथा--येन त्वद्विषये मदीयेन मद्विषये त्वदीयेन व्यापारेण त्वं रज्यसे प्रीता भवसि तच्च तदेव मम उरु महद्राज्यं त्वदनुरागहेतुव्यापार एव साम्राज्यम् , नतु सकलभूमण्डलाधिपत्यमित्यर्थः। तथा–यस्त्वदङ्गस्य परिरम्भविभ्रम आलिङ्गनविलासस्त्वच्छरीरेण मदङ्गे कृतो वा परिरम्भविभ्रमस्तदेव नलस्य मम सुधयाऽमृतेनाभिषेचनमभितः स्नानम् । सुधाभिषेकादपि भवदङ्गसुखकर इत्यर्थः । सर्वथा त्वमेव मम सकलपुरुषार्थसर्वस्वभूतासीत्यर्थः ।

शर्म किं हृदि हरेः प्रियार्पणं किं शिवार्धघटने शिवस्य वा।
कामये तव महेषु तन्वि तं नन्वयं सरिदुदन्वदन्वयम् ॥ १४५ ॥

 शर्मेति ॥ हरेः श्रीविष्णोर्हदि प्रियार्पणं लक्ष्म्याः स्थापनं किं नाम शर्म सुखम् । तथा--वाऽथवा शिवस्य शिवायाः पार्वत्या अर्धेन घटनं किं शर्म तदप्यल्पीयः । तर्हि किं नाम परमं सुखमित्याशक्ङ्याह-ननु तन्वि भैमि, महेषु सुरतोत्सवेषु तव तमतिप्रसिद्धं सरिदुद्न्वतोर्नदीसमुद्रयोरिवान्वयमभिन्नजलोपलम्भेन तादात्म्यलक्षणमयमहमयं शुभावहविधिरूपं वा संबन्धं कामये वाञ्छामि । इष्टदेवताभ्य इति शेषः । महेषूत्सवेषु मध्ये तव सरिदुदन्वदन्वयमेकं कामये नत्वन्यमिति वा । हरेर्हदि प्रियापणे, शिवस्य च शिवार्धघटन आलिङ्गनादीनां पृथक्स्थितभिन्नदेहसाध्यत्वादालिङ्गनादिजन्यं सुखं तावन्नास्त्येव किंत्वेकदेशस्पर्शमात्रजन्यमेवास्ति तस्मादावयोर्यदि पृथकत्वम् , तर्हि तदा सुरतसमये क्षीरवदेकीभावोस्तु । यद्यपृथक्त्वमिष्टम् , तर्हि नदीसमुद्रजलवत्तादात्म्यमेव भवतु, नतु हरिलक्ष्म्यादिवभ्देदोल्लेख इति भावः । नन्वहमित्यपि पाठः। 'तव मयेह-' इति पाठे-अयमहमिह भूलोके मया सह तव तं तादृशं सरिदुदन्वदन्वयं कामय इत्यर्थः॥

धीयतां मयि दृढा ममेति धीर्वक्तुमेवमवकाश एव कः।
यद्विधूय तृणवद्दिवसतिं क्रीतवत्यसि दयापणेन माम् ॥ १४६ ॥

 धीयतामिति ॥ हे भैमि, मयि त्वं ममेति धीर्निश्चितां बुद्धिर्धीयतां न्यस्यताम् । मयि स्वत्वबुद्धिरासंसारं त्वया क्रियतामिति वक्तुमेवाभिधातुमप्यवकाशोऽवसर एव क:, अपि तु-तात्त्विकेऽर्थे एवं वक्तुमवकाशलेशोपि नास्ति । यद्यस्माद्धेतोर्दिवस्पतिमिन्द्रं तृणवत्तृणेन सुल्यं वर्तते तृणवदेव यथा तथा तृणमिव परित्यज्य दयारूपेण पणेन मूल्येन मां क्रीतवत्यसि । उदासीने हि ममत्वबुद्धिः कार्येत्यारोपः प्रार्थ्यते । विक्रीय मूल्येन गृहीते वस्तुनि तु स्वत्वं न्याय्यमस्त्येवेति तदारोपो न प्रार्थ्यत इत्यर्थः । यदि