पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
नैषधीयचरिते

ष्यध्वमिति कर्मकर्तरि प्राप्तकाले लोटस्तङ् । एवमहमपि कथासु शिष्ये इत्युत्तरं चापि ज्ञेयम् ॥

इत्थममुं विलपन्तममुञ्चद्दीनदयालुतयावनिपालः ।
रूपमदर्शि धृतोऽसि यदर्थं गच्छ यथेच्छमथेत्यभिधाय १४३

 इत्थमिति ॥ अवनिपालो राजा दीनेषु दयालुस्तस्य भावस्तत्ता तया इत्यभिधायोक्त्वा इत्थं पूर्वोक्तप्रकारेण विलपन्तं विलापं कुर्वन्तममुं हंसममुञ्चदत्यजत् । इतीति किम्-हे हंस, यदर्थं धृतोऽसि तद्रूपमदर्शि दृष्टम् । अथातःपरं त्वं यथेच्छं स्वेच्छया गच्छ । यदर्थं धृतोऽसीत्यादिना 'धिगस्तु तृष्णा-' इत्यादि परिहृतम् । 'स्पृहिगृहि-' इत्यालुचि दयालुः । दोधकं वृत्तम् ॥

आनन्दजाश्रुभिरनुस्रियमाणमार्गा-
 न्प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् ।
चक्रे स चक्रनिभचङ्क्रमणच्छलेन
 नीराजनां जनयतां निजबान्धवानाम् ॥ १४४॥

 आनन्देति ॥ स हंसः चक्रनिभं चक्राकारं चङ्क्रमणं भ्रमणं तस्य छलेन व्याजेन नीरा- जनामारार्तिकां जनयतां कुर्वतां निजबान्धवानां स्वीयमित्राणां प्राक्स्वग्रहणसमये शोकेन निर्गतान्नेत्रपयःप्रवाहान्बाष्पप्रवाहान्स्वमुक्तिसमये आनन्दजाश्रुभिरानन्दजनितबाष्पैर नुस्रियमाणमार्गाननुगम्यमानमार्गांश्चके । धृते हंसे रुरुदुः, मुक्ते जहसुरित्यर्थः । बद्धमुक्तं पक्षिणं वेष्टयित्वा पक्षिणो भ्रमन्ति रुदन्ति चेति पक्षिजातिः । अन्यस्यापि कारागृहादिबद्धविमुक्तस्यानन्दाश्रुसहितैर्बान्धवैर्नीराजना क्रियते । चङ्क्रमणमिति क्रमेर्गतिकौटिल्ये । यङन्ताद्भावे ल्युट् । वलयाकारापि गतिः कुटिलैव । 'यङोऽचि च' इति चकारादन्यत्रापि यङो लुक् । सर्वसर्गसमाप्तिश्लोकेष्वानन्दपदप्रयोगादानन्दाङ्कमिदं काव्यम् । वसन्ततिलकावृत्तम् ॥


श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्गया महा-
 काव्ये चारुणि नैधीयचरिते सर्गोऽयमादिर्गतः ॥१॥

श्रीहर्षमिति ॥ श्रीहीरनामा पिता मामल्लदेवी माता च यं श्रीहर्षनामानं पुत्रं सुषुवे। किंभूतः श्रीहीरः-कविराजानां राजिः पतिस्तस्या मुकुटानामलंकाररूपो हीरो ही-


१ 'अत्र जातिरलंकारः' इति साहित्यविद्याधरी। २ 'अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासापद्युतिजात्यलंकारसंसृष्टिः' इति साहित्यविद्याधरी।

४ 'नैषधस्स चरिते' इति पाठः साहित्यविद्याधरीसंमतः।