पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३२
नैषधीयचरिते


तासि यस्मात् , तस्मान्मा भैषीरहं भवतीं कदाचिदपि नोज्झितास्मीति । यतः-असत्ये नारीप्रलोभनवचनविषये कातरो भीरुः । भाविनस्त्यागस्य दैवाधीनत्वान्नासत्यवादित्वमिति भावः । यद्वा-असतीष्वकातरः, सतीषु विषये भीरुरेव । तद्भयनिराकरणार्थमेवमवददित्यर्थः । छुप्तेति 'छुप स्पर्शे' इति तौदादिकादनिटो निष्ठा । शिरोधुत इति क्विबन्तम् ॥

संगमय्य विरहेऽस्मि जीविका यैव वामथ रताय तत्क्षणम् ।
हन्त दत्थ इति रुष्टयावयोर्निद्रयाऽद्य किमु नोपसद्यते ॥ १५०॥

 संगेति ॥ हे भैमि, इत्यतो हेतो रुष्टया कुपितयेव निद्रयाऽद्यास्यां रात्रावावयोर्नोपसद्यते आसन्नया न भूयते किम्विति वितर्के । इति किम्-हे भैमीनलौ, यैवाहं निद्राविरहे विवाहात्पूर्वं वियोगसमये वां युवां स्वप्नदर्शनादिवशात्संगमय्य संयोगं प्रापय्य युवयोर्जीविकास्मि प्राणधारणहेतुरभूवमित्यर्थः। तत्क्षणं तस्या मम संबन्धिनं क्षणं रात्रिलक्षणं समयमवसरं वा अथ विवाहानन्तरं स्वकार्यार्थं रताय युवां दत्थः । रात्रिलक्षणे मदीयसमय एव सुरतस्य क्रियमाणत्वात् । हन्त कष्टमनुचितम् । कृतमुपकारं न स्मरथ इत्यर्थः । आपदि कृतोपकारा हि तदीयेऽवसरेऽन्यस्मै दत्ते सति कोपात्स्वामिसमीपं नागच्छन्तीत्यापदि कृतोपकाराया मम रांत्रिरूपोऽवसरः सुरताय दत्तो युवाभ्याम् , मह्यं तु मदीयावसरस्य लेशोपि न दत्तः, प्रभातपर्यन्तं सुरतस्यैव करणादिति कोपवशादिवावयोर्निद्रा नायातीति नलस्तामवोचदित्यर्थः । आप्रभातं ताभ्यां कामकेलयः कृता इति भावः । न क्षणमिति पाठे-यैव जीविका तस्या मम रताय प्रीतये क्षणमल्पमपि समयं न दत्थ इति रुष्टयेति व्याख्येयम् । संगमय्य 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । जीविका कर्तरि ण्वुल् । वां षष्ठीद्वितीयाद्विवचने वामादेशः।

ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् ।
प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥१५१॥

 ईदृशमिति ॥ इयं प्रिये ईदृशमेवंप्रकारमन्यदपि निगदति सत्येव संमदाद्धर्पात् । सुरतानन्दजश्रमादिति यावत् । तस्माद्धेतोर्दृशं नेत्रे कियत्किंचिन्न्यमीलयन्निमीलितवती । श्रमसंजातया निद्रया प्रयोजिकयेति शेषः । निदद्रावित्यर्थः । श्रान्तो हि निद्राति । संमदादेवं गदति सतीति वा । दृशं न्यमीलयत् । संमदादिव प्रियप्रियोक्तिश्रवणसंजातहर्षवशादिवेत्यर्थः । आनन्दातिशयसुखमनुभवन् हि निमीलितदृग्भवतीति प्रतीयमानोत्प्रेक्षा वा । कियदित्यनेन दृशोर्धनिमीलनस्य सूचितत्वाद्धन्यतमत्वमस्याः सूचितम् । केव-प्रातः कोकिले कलं मधुरास्फुटध्वनिं श्रोत्रसुखमालपति सति कुमुदिनीव। कुमुदिनी यथा निमीलितोत्पला भवति तथेयमपि । कस्मादिव-निशोरात्रिसंबन्धिनो जागरादिव । रात्रावनिद्रो हि प्रातर्दृशं घूर्णनेन निमीलयति । कुमुदिन्यपि रात्रावनिद्रावशादिव प्रातर्निमीलयति, तस्मादियमपि । प्रतीयमानोत्प्रेक्षा । न्यमीमिलदिति पाठे- णौ चङि 'भ्राजभास-' इति पाक्षिक उपधाह्रस्वः। जागराद्भावे घञि 'जाग्रोऽविचिण्णल्ङित्सु' इति वृद्ध्यपवादो गुणः॥