पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३४
नैषधीयचरिते


यातोऽस्मिशिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये महा-
 काव्ये तस्य कृतौ नलीयचरिते सोयमष्टादशः ॥१४॥

 श्रीहर्ष मिति ॥ शिवस्य शक्तेश्च सिद्धिर्यत्र (शिवशक्तिसाधनं यत्र कृतं) स शिवशक्तिसाधननामा ग्रन्थः । शिवभक्तीतिपाठे-शिवस्य भक्तेः सिद्धिर्यत्र शिवभक्तिप्रतिपादको ग्रन्थविशेषः । तस्य (सैव) भगिनी एककर्तृकत्वात् , तस्यां सौभ्रात्रेण शोभनभ्रातृभावेन भव्ये प्रशस्ते तत्तुल्यसरसशब्दार्थन्यासे नलीयचरितेऽष्टादशानां पूरणः सर्गः समाप्तः। शिवशक्तिसिद्धिरपि मया कृतेति सूचितम् । सौभ्रात्रमिति भावे युवादित्वादण् । अष्टादशः 'तस्य पूरणे डट्'॥

इति श्रीवेदरकरोपनामकश्रीनरसिंहपण्डितात्मजनारायणविरचिते नैषधीयप्रकाशेऽष्टादशः सर्गः समाप्तः ॥

एकोनविंशः सर्गः

निशि दशमितामालिङ्गन्यां विबोधविधित्सुभि-
 र्निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुषः ।
श्रुतिमधुपदस्रग्वैदग्धीविभावितभाविक-
 स्फुटरसभृशाभ्यक्ता वैतालिकैर्जगिरे गिरः॥१॥

 निशीति ॥ सर्गसंगतिः स्पष्टा । वैतालिकैर्बन्दिर्भिर्गरो जगिरे । किंभूतैः--निशि रात्रौ 'बाल्यं वृद्धिर्वपुः पुष्टिः प्रज्ञोत्साहौ बलं महः । दशकेन निवर्तन्ते मनः पञ्चेन्द्रियाणि च' इति वचनाद्दशदशकस्य शतायुषः पुरुषस्यावसानोपलक्षकोऽवस्थाविशेषो दशमः स विद्यते येषां दशमिनो वृद्धास्तेषां भावो दशमिता तामालिङ्गन्त्यामवसानं प्राप्तायां संजातप्रायप्रभातायां सत्यां प्रियाङ्कं भैमीसमीपमुपेयुषः प्राप्तवतस्तया सह निद्रितस्य निषधदेशवसुधायां मीनाङ्कस्य कामस्य नलस्य विबोधं जागरां विधित्सुभिः कर्तुमिच्छुभिः । कीदृश्यो गिरः-श्रोतृणां श्रुत्योः श्रवणयोर्मधु अमृतरूपाऽतिमधुरा पदस्रक् सुप्तिङन्तपदमाला तस्या वैदग्ध्या वक्रोक्त्यादिरचनाचातुर्येण विभाविता ध्वनिवृत्त्या व्यञ्जनाव्यापारेण प्रकाशिता भाविका रत्यादिस्थायिव्यभिचारिसहचारिरूपैर्भावैर्युक्ता । ज्ञापिता इति यावत् । तादृशाः स्फुटाः प्रसन्नतरत्वेन बालिशैरपि प्रतीता ये रसाः शृङ्गारादयस्तैर्भृशं नितरामभ्यताः सर्वतः सिक्ताः। एकमपि पदं नीरसं यासु नास्त्यतिरसिकाः नलप्रबोधार्थं मागधैर्मधुरं प्रातर्वर्णनमारब्धमित्यर्थः । रत्न्यादयः स्थायभावाः, निर्वेदादयस्त्रयस्त्रिंशद्भावाः । 'वैतालिका बोधकराः' इत्यमरः । दशमोऽवस्थाविशेषो विद्यते यस्यासौ दशमी वृद्धः । अत इनिः । योगरूंढोयं शब्दः । दशमिन्यां