पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३६
नैषधीयचरिते


भागास्तेषामप्यंशेन लेशेन भ्रंशस्तस्य क्रमेणैकैकभागापगमक्रमेण निर्गता अंशवो यस्य तं निरंशुकम्, अथ च-विवस्त्रममुं तुहिनमहसं पश्यन्तीव । मय्यनुरक्तस्त्वभ्युदयभागभूत्, इदानीमन्यस्यामनुरक्त इमां दशामापन्नोयमितीव हसतीत्यर्थः । अन्यापि नार्यनुरागातिविह्वलं गलद्वस्त्रं परस्त्रीं सेवमानं विटं दृष्ट्वा मुखं स्मेरं करोति । प्राच्यामरुणोदयोऽभूत्, प्रतीच्यां त्वरुणकिरणप्रसरणवशाञ्चन्द्रो निष्प्रभोऽस्तं जिगमिषुरस्ति, तस्मा- च्छीघ्रं बुध्यस्वेति । अंशेन भ्रंशः 'तृतीया-' इति योगविभागात्समासः, ततः पूर्वेण षष्ठीसमासः । इतः सप्तम्यर्थे तसिः। एवंभूतं चन्द्रं पश्यन्ती इतोऽस्माद्धेतोरिवति । इतो दृश्यमानादस्मात्प्रसादमिषादिति वा संबन्धे प[१]ञ्चम्येव ॥

अमहतितरास्ताद्दक्तारा न लोचनगोचरा-
 स्तरणिकिरणा द्यामञ्चन्ति क्रमादपरस्पराः ।
कथयति परिश्रान्तिं रात्रीतमस्सहयुध्वना-
 मयमपि दरिद्राणप्राणस्तमीदयितस्त्विषाम् ॥ ४॥

 अमहतीति॥ भो राजन् , अमहतितराः।स्वरूपेणैव सूक्ष्मतराध्रुवारुन्धत्यादयस्तारा इदानी तादृक् पूर्ववल्लोचनगोचरा न भवन्ति । स्वरूपेण सूक्ष्मत्वात्पूर्वमपि चक्षुष्मतामपि महता यत्नेन या दृश्यन्ते ता इदानीं सर्वथा न दृश्यन्त एवेत्यर्थः। तादृश्यो बहुसंख्याः पूर्वं प्रकाशमानाश्च यास्तारकाः स्वात्यादयस्ताः संप्रति सुतरामल्पाः सूक्ष्माश्च सत्यो नेत्रगोचरा न भवन्तीति वा । यस्मात्तरणेः सूर्यस्य किरणा अपरस्परा अहमहमिकया सततमविच्छेदेन प्रवृत्ताः सन्तः क्रमाद्दयां गगनमञ्चन्ति गाहन्ते । सूर्यकरस्पर्शानिष्प्रभत्वात्तारा न दृश्यन्त इत्यर्थः । तथा-दरिद्राणाः क्षीणाः प्राणा असवो यस्यै- वंभूतोऽस्तं जिगमिषुरयं तमीदयितो निशानाथश्चन्द्रोऽपि रात्रीतमसा सहयुध्वनां संग्रामं कुर्वतीनां निजत्विषां परिश्रान्तिं सामस्त्येन म्लानिं रणपातं च कथयति । न केवलं त्विष एव दरिद्राणप्राणाः किंतु चन्द्रोऽपीत्यपिशब्दार्थः । अतिशयेन महत्यो महतितराः 'घरूप-'इति ह्रस्वः, ततो नञ्समासः । गोचरः पुमान् । अपरे च परे च 'अपरस्पराः क्रियासातत्ये' इति सुट् । द्यां सततमविच्छेदेनाष्च्चन्तीत्यर्थः। सहयुध्वनां 'सहे च' इति युधेः क्वनिपि 'वनो र च' इति प्राप्तौ ङीब्रौ 'वनो न हशः' इति निषेधान्न भवतः । दरिद्राणेति 'दरिद्रातरार्धधातुके–' इत्यादिना प्राप्तोऽप्यालोपो 'न दरिद्रायके लोपो दरिदाणे च नेष्यते' इत्यादिनिषेधान्न भ[२]वति ॥

स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः
 पुरुसितगरुच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ।
अपि मधुकरी कालिंमन्या विराजति धूमल-
 च्छविरिव रवेर्लाक्षालक्ष्मीं करैरतिपातुकैः ॥ ५॥


  1. 'अत्र मिषशब्देन प्रसादरूपापहवेन पराङ्गनासंगतपुरुषदर्शनजन्मस्मितत्वोत्प्रेक्षणात्सापह्रवोत्प्रेक्षा ।' इति जीवातुः
  2. 'समुच्चयोलंकारः' इति जीवातुः