पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३७
एकोनविंशः सर्गः

 स्फुरतीति ॥ हे राजन्, तिमिरस्य स्तोमः समूहः लाक्षालक्ष्मीमतिपातुकैरतिक्रामद्भिस्ततोऽप्यधिकं रक्ततरै रवेः करैः कृत्वा पुरूणां बहूनां सितगरुतां श्वेतपक्षाणां चञ्चद्भिश्चपलैः, अरुणिम्ना विलसद्भिर्वा, चञ्चूपुटैः स्फुटं यथा तथा चुम्बितः स्पृष्टः पङ्कस्य प्रपञ्चः समूह इवोच्चकैरतितरां स्फुरति शोभते । तिमिरस्तोमोऽन्तराप्रविष्टसूर्यकिरणस्पर्शाद्विसखननार्थं पङ्कप्रविष्टहंसारुणचपलचञ्चपुटशबलपङ्कवच्छोभतेतरामित्यर्थः । तथा-आत्मानं कालीं मन्यते कालिंमन्या अतिकृष्णा भ्रमर्यप्यरुणतरैः सूर्यकिरणैर्धूंमलच्छविरिव च कृष्णारुणकांतिरिव शोभतेतराम् । सूर्यकराः प्रसृताः, तीमिरं चाल्पीभूतमिति भावः । 'धूमलौ कृष्णलोहितौ' इत्यमरः । उच्चकैरव्ययत्वादकच् । मधुकरी जातिवाचित्वान्ङीष् । कालिंमन्या 'आत्ममाने खश् च' इति खश्, दिवादित्वाच्छयन्, 'खित्यनव्ययस्य' इति ह्रस्वः, 'अरूर्द्विषद्-' इति मुम् । लाक्षालक्ष्मीं 'न लोका-' इति षष्ठीनिषेधः[१]

रजनिवमथुप्रालेयाम्भःकणक्रमसंभृतैः
 कुशकिशलयस्याच्छैरग्रेशयैरुदबिन्दुभिः ।
सुषिरकुशलेनायःसूचीशिखाङ्कुरसंकरं
 किमपि गमितान्यन्तर्मुक्ताफलान्यवमेनिरे ॥६॥

 रजनीति ॥ रजन्याः वमथुवत्करिणीवदननिर्गतजलवत्प्रालेयाम्भसो हिमजलस्य कणा लेशास्तेषां गलनक्रमेण संभृतैः संचितैः कुशकिशलयस्याग्रेशयैरपस्थितैः सूचीतीक्ष्णाग्रभागे स्थितैरच्छैर्निर्मलतरैरुदबिन्दुभिर्हिमजलकणैः कर्तृभिर्मुक्ताफलान्यवमेनिरेऽवगणितानि । मौक्तिकतुल्यैर्जातमित्यर्थः । किंभूतानि मुक्ताफलानि-सुषिरे विवरकरणे कुशलेन मणिकारेण मध्ये किमपि लोकोत्तरं, स्तोकं वा, अयःसूच्या लोहसूच्या वेध- नशलाकायाः शिखैव सूक्ष्मत्वादकुरस्तेन संकरं संयोगं गमितानि प्रापितान्यर्धविद्धानि। 'वमथुः करिशीकरः' इत्यमरः । 'ट्वितोऽथुच्' । अग्रेशयैः 'अधिकरणे शेतेः' इत्यजन्ते शयशब्दे 'शयवास-' इति सप्तम्या अलुक् । सूची 'कृदिकारात्-'डीप् । संकरं 'ऋदोरप्[२]

रविरुचिऋचामौंकारेषु स्फुटामलबिन्दुतां
 गमयितुममूरुच्चीयन्ते विहायसि तारकाः।
स्वरविरचनायासामुच्चैरुदाततया हृताः
 शिशिरमहसो बिम्बादस्मादसंशयमंशवः ॥ ७॥


  1. 'अत्र काल्या भृङ्गया रविकरैर्लौहित्यादिविकारात्तद्गतेन तदुत्थापिता धूमलत्वोत्प्रेक्षेति संकरः' इति जीवातुः
  2. अत्र दर्भाग्रबिन्दूनां सूच्यालग्नमुक्ताफलैरुपमा, प्रालेयाम्भःकणेषु वमथुत्वरूपणाद्रजनेः करिणीत्वरूपणसिद्धिरेकदेशावर्तक इत्यनयोरङ्गाङ्गिभावात्संसृष्टिः' इति जीवातुः