पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३८
नैषधीयचरिते

 रवीति ॥ रवेः पौर्वाह्निक्यो रुचय एव ऋचस्तासां [प्रातःकाले रविकिरणानामृग्रृपत्वात् । 'ऋग्भिः पूर्वाह्ने दिवि देव ईयते, यजुर्वेदे तिष्ठति मध्येऽह्नः' इत्यादिश्रुतेः] ऋग्वेदवाक्यानामोंकारेषु प्रारम्भप्रणवेषु, अथ च-लक्षणया प्रारम्भेष्षूदयसमयेषु स्फुटां प्रकटाममलां स्वरोच्चारणादिदोषरहितां बिन्दुतामनुस्वाररूपां गमयितुममूर्विहायसि स्थितास्तारकाः केनाप्युञ्चीयन्तेऽवचयेन संगृह्यन्त एव । वृत्तामलत्वाद्योग्यत्वाच्च ऋक्प्रणवबिन्दुनिर्माणार्थमेता गृह्यन्त इव ततो न दृश्यन्त इत्यर्थः । प्रत्यृचमोंकारसद्भावात्तद्वाहुल्यात्ताराबिन्दूनामपि बहुत्वम् । अथ च-उद् ऊर्ध्व चीयन्ते, नीयन्त इति यावत् । सूर्यप्रभोदय एव तारका नश्यन्तीति भावः । तथा-अस्तमयोन्मुखादस्माच्छिशिरमहसश्चन्द्रस्य बिम्बात्सकाशादंशवोऽप्यासामृचामुच्चैर्नितरामुदूर्ध्वमात्ततया गृहीततया, अथ चक्षणावशाद्विशालतयोपरिस्थिततया वा, अथ च -'उच्चैरुदात्तः इत्युदात्तलक्षणयोगादुच्चैरुदात्तत्वेन योग्यत्वादुदात्तस्वरस्य विरचनाय निर्माणाय असंशयं निश्चितं केनापि हृता इव । उदात्तस्य शिरस्युपलभ्यमानत्वव्यञ्जिकोर्घ्वव्र रेखा लिख्यते । यजुर्वेदे चरकशाखायामुपनिषदि ‘उच्चैरुदात्तः, (नीचैरनुदात्तः), समाहारस्वरितः' इति लक्षणं द्रष्टव्यम् । चन्द्रकिरणानामप्यस्तमये उपरिगामित्वात्सूक्ष्मोपरितनरेखातुल्यत्वादेवमुत्प्रेक्षितम् । सूर्यप्रभोद्गमक्रमेण चन्द्रकिरणा अपि कृशीभूता इति भावः । वृता इति पाठे-स्वीकृताः । असंशयमुभयत्रापि योज्यम् । रुचिऋचाम् 'ऋत्यकः' इति प्रकृतिभावः॥

व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके
 भवति च नले दूरं तारापतौ च हतौजसि ।
लघु रघुपतेर्जायां मायामयीमिव रावणि-
 स्तिमिरचिकुरग्राहं रात्रिं हिनस्ति गभस्तिराट् ॥ ४ ॥

 व्रजतीति ॥ गभस्तिराट् सूर्यः तिमिरमेव चिकुरास्तिमिरतुल्याः केशास्तेषु गृहीत्वेति ग्राहं रात्रि हिनस्ति लघु शीघ्रं विनाशयति । कः कामिव-रावणिरिन्द्रजिन्मायामयीं मायानिर्मितां रघुपतेर्जायां सीतामिव । कस्मिन्सति-वाक्यार्थस्य कर्मत्वात्तदीयं रात्रिहिंसनरूपं कर्म दृष्ट्वा कुमुद कैरवे मोहं संकोचं व्रजति सति । अथ च-सीताहिंसनरूपं कर्म दृष्ट्वा कुमुदाख्ये वानरे मूर्च्छां गच्छति । तथा-नले च भवति त्वयि दृष्ट्वा सूर्योदयसमये ज्ञात्वा दृशोरपि धायके उन्मीलितनेत्रे सति । यद्वा-नले त्वयि नेत्रयोराच्छा- दके भवति सति । अथ च-नले वानरसेनापतौ दारुणं तदीयं कर्म दृष्ट्वा किमपि कर्तुमशक्यत्वाद्दुःखवशाद्वा तारापतौ च सुग्रीवे दृशोरपिधायके हतौजसि च निस्तेजस्के म्लानवदने च सति । रात्रिर्गता, रविरुदितः, कुमुदं च निमीलितम् , कमलं चोन्मीलितम् , चन्द्रश्च निष्प्रभो जात इत्यर्थः । मायामय्याः सीताया वध इन्द्रजिता कृत इति रामायणे । मायामयीं प्राचुर्ये मयटि ङीप् । रावणिरपत्यार्थे बाह्वादित्वादि । चिकुरग्राहं सप्तम्यन्त उपपदे 'समासत्तौ' इति ग्रहेर्णमुल् । गभस्तिभी राजते गभस्तिराट् 'सत्सूद्विष-' इति क्विप् ॥