त्रिदशमिथुनक्रीडातल्पे विहायसि गाहते |
त्रिदशेति ॥ ग्रहसंग्रहः शुक्रादिस्थूलतारासमूहः त्रिदशा देवास्तेषां मिथुनं तस्य क्रीडासंबन्धिनि तल्पे मञ्चरूपे विहायसि गगने निधुवनं सुरतसंमर्दस्तेन धुता विकीर्णाः स्त्रजः पुष्पमालास्तासां भाग एकदेशस्तस्य श्रीभरं शोभातिशयं गाहते। तथा-विधुरखण्डः पूर्णो वृत्तश्चन्द्रो गण्डोपधानविधां कपोलतलाधःस्थाप्यमानवृतं शुभ्रतरोच्छीर्षकप्रकारं न परिहरति न त्यजति, अङ्गीकरोत्येव, तद्वच्छोभत इत्यर्थः । किंभूतो विधुः-मृदुतरकराकारैरतिमृदुरश्मिरूपैस्तूलोत्करैः कार्पाससमूहैरुदरंभरिः परिपूरितमध्यः । गण्डोपधानं मृदुतरकार्पासपूरितमध्यं वृत्तं शुभ्रं च भवति । स्थूलतरास्तारास्तल्पविकीर्यमाणकुसुमतुल्या इतस्ततो दृश्यन्ते । चन्द्रोपि सौरप्रकाशस्यासन्नत्वेन संकुचिताभिः स्वकान्तिभिर्मध्यमेव पूरयन्मर्दितगण्डोपधानवन्निःशोभोऽस्तमयोन्मुखो जात इति भावः। संग्रहः 'ग्रहवृदृनिश्चिगमश्च' इत्यपू । उत्करः 'ऋदोरप्' । उदरंभरिः 'फलेगहिरात्मभरिश्च' इति चकारस्थानुक्तसमुच्चयार्थकत्वादिन् नुमागमश्च[१]॥
दशशतचतुर्वेदीशाखाविवर्तनमूर्तयः |
दशेति ॥ दश शतानि यासां ता एकसहस्रसंख्याश्चतुर्णामृग्वेदादिवेदानां समाहारश्चतुर्वेदी तस्याः शाखानामाश्वलायनतैत्तिरीयकादिसंज्ञानां तत्तद्वेदभागानां विवर्तनरूपा अतात्त्विका अन्यथाभावरूपाः शाखारूपतां प्राप्ता मूर्तयःस्वरूपाणि येषां तादृशा रविरश्मयो ध्रुवं यस्मादधुना प्रातःसमये सविधमस्मदादिसमीपदेशं भूषयन्ति सर्वेपि. समीपदेशमागच्छन्ति। तत्तस्मादयमध्येतॄणां वेदं पठतां वदनलक्षणेषु कुहरेषु दरीषु विषय आकर्ण्यमानवर्णानुरूपस्तेषां वेदशास्त्रीभवन्मूर्तीनां सूर्यकराणामेव श्रुतिपदमयो वेदपदरूपः प्रतिध्वनिः प्रतिशब्दोऽध्वनि गगन उदञ्चत्यूर्ध्वं प्रसरति । दरीषु प्रतिशब्दो युक्तः । अध्वनि मध्यतारध्वनिरहितं यथा तथेति । अध्येतारो हि प्रातमन्द्रध्वनिना वेदानधीयते । ध्रुवमुत्प्रेक्षायां वा । सूर्योदयो जातः, अध्येतारश्च वेदानधीयत इत्यर्थः । दशशतेति मूर्तिविशेषणम् । चतुर्वेदी समाहारे द्विगोर्ङीप् । पदमयस्तादूप्ये मयट् ॥
- ↑ 'अत्र श्रियमिव श्रियम्, विधामिव विधामिति सादृश्याक्षेपादुभयत्र निदर्शनोत्थानात्सजातीयसंसृष्टिः' इति जीवातुः।