नयति भगवानम्भोजस्यानिबन्धनबान्धवः |
नयतीति ॥ अम्भोजस्य कमलकुलस्यानिबन्धनबान्धवोकारणमित्रं तदानन्दकारी भगवान्षड्गुणैश्वर्यसंपन्नः श्रीसूर्यो मघवत इन्द्रस्य वैजयन्ताख्यस्य प्रासादस्य प्रघाणमलिन्द किमपि स्तोकं यथातथोपघ्नतामाश्नयतां नयति प्रापयत्याश्रयति । तावत्पर्यन्तमूर्ध्वमागत इत्यर्थः । अथ च-तं श्लिष्यति । पराङ्मुखशत्रोः शूरस्य परस्पराश्लेषो युक्तः । किंभूतः-अपसरत्पुरः पलायमानमरिरूपं ध्वान्तं तस्य प्रतीचः पश्चिमाशायाः संबन्धिनि वियत्पथे गगनमार्गे मण्डल्या संघीभावेन यल्लगनं संश्लेषः प्रत्यग्दिगन्तगामित्वम् , लयनमिति पाठे-संघीभावेन यत्तिरोधानं सामस्त्येनादर्शनं तेन फलन्सफलो भवन्नश्रान्तो निरन्तरः स्वर्णाचलस्य मेरोः प्रदक्षिणलक्षणो भ्रमः स एव विभ्रमो विलासो यस्य । सद्वस्तुपरिपालनाय रात्रौ भ्रमतो यामिकस्य चौरपलायनेन यथा साफल्यं भवति तथा स्वर्णाचलरक्षणाय सूर्यस्य भ्रमणविलाससाफल्यं युक्तमित्यर्थः । अत एव स्वर्णाचलपदं प्रायोजि । अत्रापि पूर्वोत्तरार्धविपर्यासो ज्ञातव्यः । 'प्रघाणप्रघणालिन्दाः' इत्यमरः । बान्धवः प्रज्ञादित्वात्स्वार्थेऽण् । मघवप्रासादस्य प्रातिपदिकान्तत्वान्नलोपः । 'अगारैकदेशे प्रधणः प्रधाणश्च' (इति) 'उपघ्न आश्रये' इति च प्रघाणोपन्नशब्दौ साधू । प्रत्यक् 'दिक्शब्देभ्यः' इत्यस्तातेः 'अञ्चेर्लुक्' इति लुक् । 'तसिलादिस्तद्धितः' इत्यव्ययत्वम् ॥
नभसि महसां ध्वान्तवाङ्क्षप्रमापणपत्रिणा- |
नभसीति ॥ शशी निजाङ्कवर्तिशशाख्यपशुविशेषस्य विशसनं मारणं तस्माद्यस्त्रासो भयं तस्माञ्चरमामाशां पश्चिमां दिशमयाद्ययौ । तथा–तारा नक्षत्राणि तद्रूपैः पारापतैस्तस्य चन्द्रपलायनवृत्तान्तस्य सूर्यस्य मृगयारम्भवृत्तान्तस्य चाधिगमनात्परिज्ञानादुदडीयत पलायितम् । किंविधः शशी-नभसि गगने ध्वान्तमन्धकारस्तद्रूपाणां ध्वाङ्क्षाणां काकानां प्रमापणे मारणे विषये पत्रिणां श्येनाख्यपक्षिरूपाणां महसां सूर्यतेजसामिह प्राग्भागे विहरणैः क्रीडनैः रवेः श्रीसूर्यस्य श्यैनंपातां न्। अन्यस्मिन्नपि राज्ञि मृगयाश्येनपातेन काकादीन् हिंसति सति शशयुक्तः पुरुषो मदीयं शशमपि मांसार्थमेतदीयाः श्येना हनिष्यन्तीति भिया पलाय्य गच्छति । पारा.
- ↑ मघवत्प्रासादस्येति पाठो बहुपुस्तकस्थः ।