पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
द्वितीयः सर्गः

राख्यं रत्नम् । किंभूतम्-जितेन्द्रियचयं जित इन्द्रियचय इन्द्रियसमूहो येन । तस्य श्रीहर्षस्य चिन्तामणिमन्त्रस्य चिन्तनमनुध्यानं जपादिकं तस्य फले शृङ्गारभङ्गया शृङ्गाररचनाविशेषेण चारुणि रमणीये शृङ्गाररसप्रधाने नैषधीयं नलसंबन्धि चरितं चरित्रं यस्मिन्नेवंविधे महाकाव्येऽयमादिः प्रथमः सर्गो गतः समाप्तः । चिन्तामणिमन्त्रचिन्तनसामर्थ्यादेवंविधं काव्यं कृतमिति भावः। शार्दूलविक्रीडितं वृत्तम् । नैषधसंबन्धि नैषधीयम् ‘वृद्धाच्छः' । छन्दांस्यलंकाराश्चात्र नोक्ताः। लक्षणग्रन्थगौरवभयात् । ते तु सुधिया ग्रन्थान्तराज्ज्ञातव्याः॥ इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृतौ नैषधीयप्रकाशे प्रथमः सर्गः समाप्तः॥

द्वितीयः सर्गः।

हंसमुखेन भैमीवर्णनार्थं द्वितीयं सर्गमारभते-

अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः ।
वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः ॥१॥

 अधिगत्येति ॥ अथ मोचनानन्तरं स द्विजो हंसः तमानन्दं लोकोत्तरं हर्षमविन्दत लेभे । तं कम्-य आनन्दो वचसामपि गोचरो विषयो न । वर्णयितुमशक्य इत्यर्थः । किंकृत्वा-ततस्तस्माज्जगत्याः पृथ्व्या अधीश्वरात्स्वामिनः पुरुषोत्तमात्पुरुषश्रेष्ठान्नलान्मुक्तिं मोचनमधिगत्य प्राप्य । यथा द्विजो ब्राह्मणो जगति लोके अधीश्वरात्सर्वोत्कृष्टापुरुषोत्तमाच्छ्रीविष्णोः सकाशात्तत्प्रसादान्मुक्तिं मुक्तिसाधनं संसारमोचनं च ज्ञानं प्राप्य वागगोचरम् , अपिशब्दान्मनसोऽप्यगोचरमानन्दं ब्रह्मस्वरूपं प्राप्नोति । 'यतो वाचो निवर्तन्ते' इति, 'आनन्दं ब्रह्मणो रूपम्' इति च श्रुतेः । ज्ञानान्मोक्ष इति । 'जगती जगति छन्दोविशेषेऽपि क्षितावपि', 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । 'न निर्धारणे' इति निषेधात्षष्ठीसमासो न । पुरुषेषुत्तम इति निर्धारणसप्तमीसमास एव । स्वरविशेषदर्शनात् । लाभार्थो विदिः स्वरितेत् । मुचादिः । सर्गेऽस्मिन् 'अश्रान्त-' इति यावद्वैतालीयं छन्दः॥

अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती ॥२॥

 अधुनीतेति ॥ स खगो हंसस्तनुं शरीरं नैकधा नैकप्रकारमधुनीताकम्पयत् । किंभूतां तनुम्-उत्फुल्लानि विकसितानि तनूरुहाणि रोमाणि यस्यां सा, अनुत्फुल्लतनूरुहा


१ अत्रानुप्रासरूपकालंकारौं' इति साहित्यविद्याधरी । २ 'अत्रानुप्रासश्लेषालंकारौ' इति साहित्यविद्याधरी । 'अत्राभिधायाः प्रकृतार्थमात्रनियन्त्रणादुभयश्लेषानुपत्तेर्भेदान्तरानवकाशाल्लक्षणायाश्च मुख्यार्थबाधमन्तरेणासंभवाद्ध्वनिरेवायम् । ब्राह्मणस्य विष्णोर्मोक्षानन्दप्राप्तिलक्षणार्थान्तरप्रतीतेर्न श्लेषः प्रकृताप्रकृतोभयगतः' इति जीवातुः।